वांछित मन्त्र चुनें

दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ । प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

अंग्रेज़ी लिप्यंतरण

divispṛśaṁ yajñam asmākam aśvinā jīrādhvaraṁ kṛṇutaṁ sumnam iṣṭaye | prācīnaraśmim āhutaṁ ghṛtena tad devānām avo adyā vṛṇīmahe ||

पद पाठ

दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । अ॒स्माक॑म् । अ॒श्वि॒ना॒ । जी॒रऽअ॑ध्वरम् । कृ॒णु॒त॒म् । सु॒म्नम् । इ॒ष्टये॑ । प्रा॒चीन॑ऽरश्मिम् । आऽहु॑तम् । घृ॒तेन॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.६

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:6 | अष्टक:7» अध्याय:8» वर्ग:10» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे अध्यापक और उपदेशक जनों ! दिनरात (जीराध्वरम्) प्रगति मार्गवाले विद्यामय मार्गवाले (दिविस्पृशम्) प्रकाशमय परमात्मा में सुखस्पर्श करानेवाले (अस्माकं यज्ञं सुम्नम्-इष्टये कृणुतम्) हमारे अध्यात्मयज्ञ को अच्छा बनाओ (घृतेन-आहुतं प्राचीनरश्मिम्) ज्ञानमय तेज से सम्पन्न को परमात्मा की ओर प्रवृत्त करो (तद्देवा०) आगे अर्थ पूर्ववत् है ॥६॥
भावार्थभाषाः - अध्यापक और उपदेशक तथा दिन और रात प्रगति मार्गवाले या विद्यामय मार्गवाले परमात्मसम्बन्धी सुख पहुँचानेवाले अध्यात्मयज्ञ को कल्याण के लिये सम्पन्न करें, जिससे परमात्मा का साक्षात्कार हो सके ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे अध्यापकोपदेशकौ ! “अश्विना अध्यापकोपदेशकौ” [ऋ० ५।७८।३ दयानन्दः] यद्वा-अहोरात्रौ “अश्विनौ-अहोरात्रावित्येके” [निरु० १२।१] युवाम् (जीराध्वरम्) प्रगतिमार्गवन्तम् विद्यामयमार्गवन्तम् “जीरं विद्यावन्तम्” [ऋ० १।४।११ दयानन्दः] (दिविस्पृशम्) येन दिवि द्योतनस्वरूपे परमात्मनि सुखं स्पृशन्तम् “दिविस्पृशः यो दिवि परमात्मनि सुखं स्पृशति [ऋ० ५।१३।२ दयानन्दः] तथाभूतम् (अस्माकं यज्ञं सुम्नम्-इष्टये कृणुतम्) अस्माकं खल्वध्यात्मयज्ञं साधुं “सुम्ने मा धत्तामिति………साधौ मा धत्तामित्येवैतदाह” [श० १।८।३।२७] अभीष्टसिद्धये कुरुतम् (घृतेन-आहुतं प्राचीनरश्मिम्) ज्ञानमयेन तेजसा “तेजो वै घृतम्” [मै० १।६।८] समन्तात् सम्पादितं परमात्माभिमुखप्रवृत्तिमन्तं कुरुतामिति शेषः (तद्देवा०) अग्रे पूर्ववत् ॥६॥