वांछित मन्त्र चुनें

विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वत॑: । स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

अंग्रेज़ी लिप्यंतरण

viśvasmān no aditiḥ pātv aṁhaso mātā mitrasya varuṇasya revataḥ | svarvaj jyotir avṛkaṁ naśīmahi tad devānām avo adyā vṛṇīmahe ||

पद पाठ

विश्व॑स्मात् । नः॒ । अदि॑तिः । पा॒तु॒ । अंह॑सः । मा॒ता । मि॒त्रस्य॑ । वरु॑णस्य । रे॒वतः॑ । स्वः॑ऽवत् । ज्योतिः॑ । अ॒वृ॒कम् । न॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.३

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:3 | अष्टक:7» अध्याय:8» वर्ग:9» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (रेवतः-मित्रस्य वरुणस्य-अदितिः-माता) पुष्टिमान्-पुष्टिप्रद सूर्य चन्द्रमा की या शरीर में प्राण और अपान की निर्माण करनेवाली अखण्ड ब्रह्मशक्ति (विश्वस्मात्-अंहसः-नः पातु) सभी हिंसक पाप से हमारी रक्षा करे (स्वर्वत्-अवृकं ज्योतिः-नशीमहि) सुखमय ज्ञानयुक्त अच्छिन्न-अनश्वर ज्योति को हम प्राप्त करें (देवानां तत्-अवः-अद्य वृणीमहे) अर्थ पूर्ववत् ॥३॥
भावार्थभाषाः - पुष्टि देनेवाले सूर्य-चन्द्रमा और प्राण-अपान को निर्माण करनेवाली परमात्मशक्ति की शरण लेकर हम दोषों पापों से बचे रहें, तो सुखमय अनश्वर ज्योति को प्राप्त कर सकते हैं और भौतिक देवों और विद्वानों का रक्षण भी पा सकते हैं ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (रेवतः-मित्रस्य वरुणस्य-अदितिः-माता) पुष्टिमतः सूर्यस्य चन्द्रमसो यद्वा शरीरे प्राणस्यापानस्य निर्मात्री खल्वखण्डनीया ब्रह्मशक्तिः (विश्वस्मात्-अंहसः नः पातु) सर्वस्मात्-हिंसकात् पापादस्मान् रक्षतु (स्वर्वत्-अवृकं ज्योतिः नशीमहि) सुखमयं ज्ञानयुक्तमच्छिन्नं ज्योतिर्वयं प्राप्नुयाम “नशत् व्याप्तिकर्मा” [निघं० २।१८] (देवानां तत्-अवः-अद्य वृणीमहे) पूर्ववत् ॥३॥