वांछित मन्त्र चुनें

ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥

अंग्रेज़ी लिप्यंतरण

ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ | te saubhagaṁ vīravad gomad apno dadhātana draviṇaṁ citram asme ||

पद पाठ

ये । स॒वि॒तुः । स॒त्यऽस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ । व्र॒ते । वरु॑णस्य । दे॒वाः । ते । सौभ॑गम् । वी॒रऽवत् । गोऽम॑त् । अप्नः॑ । दधा॑तन । द्रवि॑णम् । चि॒त्रम् । अ॒स्मे इति॑ ॥ १०.३६.१३

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:13 | अष्टक:7» अध्याय:8» वर्ग:11» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये विश्वे देवाः) जो सारे विषयों में प्रवेश पानेवाले विद्वान् हैं, (सवितुः सत्यसवस्य मित्रस्य वरुणस्य व्रते) उत्पादक, यथावत् शासक प्रेरक, वरनेवाले परमात्मा के नियम सदाचरण में वर्तते हैं-रहते हैं (ते-अस्मे) वे तुम हमारे लिये (वीरवत्-गोमत् सौभगम्) प्राणयुक्त प्रशस्त इन्द्रियसहित सौभाग्य को, (चित्रं द्रविणम्-अप्नः-दधातन) अद्भुत दर्शनीय ज्ञानधन कर्तव्यबल को धारण कराओ ॥१३॥
भावार्थभाषाः - उत्पन्नकर्ता, सच्चे शासक, प्रेरक और वरनेवाले परमात्मा के नियम में रहनेवाले सर्व विषयों में प्रवेश किये हुए विद्वान् जन जीवनबल, संयमशक्ति तथा सौभाग्य, ज्ञानबल और कर्तव्यबल मनुष्यों के अन्दर धारण करावें ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये विश्वे देवाः) ये सर्वविषयेषु प्रविष्टा विद्वांसः (सवितुः सत्यसवस्य मित्रस्य वरुणस्य व्रते) उत्पादकस्य यथावच्छासकस्य प्रेरकस्य वरयितुः परमात्मनो नियमे सदाचरणे वर्त्तन्ते (ते-अस्मे) ते यूयमस्मभ्यम् (वीरवत्-गोमत् सौभगम्) प्राणयुक्तं प्रशस्तेन्द्रिययुक्तं सौभाग्यम् तथा (चित्रं द्रविणम्-अप्नः-दधातन) अद्भुतं चायनीयं ज्ञानधनं कर्म-कर्त्तव्यबलं च धारयत ॥१३॥