वांछित मन्त्र चुनें

म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

अंग्रेज़ी लिप्यंतरण

maho agneḥ samidhānasya śarmaṇy anāgā mitre varuṇe svastaye | śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe ||

पद पाठ

म॒हः । अ॒ग्नेः । स॒म्ऽइ॒धा॒नस्य । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ । श्रेष्ठे॑ । स्या॒म॒ । स॒वि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.१२

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:12 | अष्टक:7» अध्याय:8» वर्ग:11» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (महः-समिधानस्य-अग्नेः) महान् प्रकाशमान सर्वनेता परमात्मा के (शर्मणि) सुखशरण में (अनागाः) पापरहित (स्याम) होवें तथा (श्रेष्ठे मित्रे वरुणे सवितुः सवीमनि) उस श्रेष्ठ प्रेरक अपनानेवाले शासक परमात्मा के प्रशासन में हम रहें। (तद्देवाना०) आगे पूर्ववत् ॥१२॥
भावार्थभाषाः - महान् प्रकाशमान सर्वनेता परमात्मा की सुखशरण निष्पाप जन ही प्राप्त कर सकते हैं। उन्हें ही परमात्मा उत्तम कर्म करने की प्रेरणा देता है-अपनाता है, जो उसके शासन में रहते हैं ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (महः समिधानस्य-अग्नेः) महतः प्रकाशमानस्य सर्वनेतुः परमात्मनः (शर्मणि) शरणे (अनागाः) “अनागसः” व्यत्ययेन बहुवचने-एकवचनम् पापरहिताः सन्तः (स्याम) भवेम, तथा (श्रेष्ठे मित्रे वरुणे सवितुः सवीमनि) तस्य श्रेष्ठस्य प्रेरकस्य वरणकर्त्तुः “विभक्तिव्यत्यः” शासकस्य परमात्मनः प्रसवे प्रशासने वयं भवेम वर्त्तेमहि (तद्देवाना०) अग्रे पूर्ववत् ॥१२॥