वांछित मन्त्र चुनें

म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणा॑म् । यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

अंग्रेज़ी लिप्यंतरण

mahad adya mahatām ā vṛṇīmahe vo devānām bṛhatām anarvaṇām | yathā vasu vīrajātaṁ naśāmahai tad devānām avo adyā vṛṇīmahe ||

पद पाठ

म॒हत् । अ॒द्य । म॒ह॒ताम् । आ । वृ॒णी॒म॒हे॒ । अवः॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्वणा॑म् । यथा॑ । वसु॑ । वी॒रऽजा॑तम् । नशा॑महै । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.११

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:11 | अष्टक:7» अध्याय:8» वर्ग:11» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अद्य) आज-इस समय (महतां बृहताम्-अनर्वणां देवानाम्) महत्त्ववाले ज्येष्ठ तथा प्रशस्त अपने ज्ञान में दूसरे पर निर्भर न रहनेवाले विज्ञानी महानुभावों के (महत्-अवः-आ वृणीमहे) उत्कृष्ट श्रवणज्ञान को भली-भाँति अपने अन्दर धारण करते हैं, (यथा) जिससे कि (वीरजातं वसु नशामहे) प्राण आदि इन्द्रियों में बसानेवाले बल को प्राप्त करें। (तद्देवा०) आगे पूर्ववत् ॥११॥
भावार्थभाषाः - गुणी श्रेष्ठ महाविद्वानों द्वारा ज्ञान का श्रवण कर प्राण आदि के बल को सुसम्पन्न करें ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अद्य) अस्मिन्काले (महतां बृहताम्-अनर्वणां देवानाम्) महत्त्ववतां ज्येष्ठानां तथाऽनर्वणां प्रशस्तानामपितु स्वज्ञानेऽन्यस्मिन्ननाश्रितानां महज्ज्ञानिनाम् “अनर्वाऽप्रत्यृतो-ऽन्यस्मिन्” [निरु० ६।२३] विदुषाम् (महत् अवः-आवृणीमहे) उत्कृष्टं श्रवणं ज्ञानं “अव रक्षण…श्रवण……वृद्धिषु” [भ्वादि०] समन्तात् स्वीकुर्मो धारयामः (यथा) यतो हि (वीरजातं वसु नशामहै) वीरेषु प्राणेषु-इन्द्रियेषु जातं वासयितृ बलं प्राप्नुयाम अग्रे पूर्ववत् ॥११॥