वांछित मन्त्र चुनें

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंह॑: । यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥

अंग्रेज़ी लिप्यंतरण

yaṁ devāso vatha vājasātau yaṁ trāyadhve yam pipṛthāty aṁhaḥ | yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ ||

पद पाठ

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । त्राय॑ध्वे । यम् । पि॒पृ॒थ । अति॑ । अंहः॑ । यः । वः॒ । गो॒ऽपी॒थे । न । भ॒यस्य॑ । वेद॑ । ते । स्या॒म॒ । दे॒वऽवी॑तये । तु॒रा॒सः॒ ॥ १०.३५.१४

ऋग्वेद » मण्डल:10» सूक्त:35» मन्त्र:14 | अष्टक:7» अध्याय:8» वर्ग:8» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः-यं वाजसातौ-अवथ) हे विद्वानो ! जिस मनुष्य को अमृतान्न भोग की प्राप्ति-मुक्तिप्राप्ति के निमित सुरक्षित रखते हो-सम्पन्न करते हो (यं त्रायध्वे) जिस अधिकारी को भय से बचाते हो, पृथक् करते हो (यम्-अंहः-अति पिपृथ) जिसको पाप से पार करके सुरक्षित रखते हो (यः-वः-गोपीथे भयस्य न वेद) जो तुम्हारे प्रवचनपान-वेदाध्ययन में अर्थात् वेदाध्ययन के लिये कुछ भी भय नहीं जानता है-अनुभव करता है, उन ऐसे आप लोगों के संरक्षण में (देववीतये) दिव्य भोगों की प्राप्तिवाली मुक्ति के लिये (ते तुरासः स्याम) वे हम संसारसागर को तैरनेवाले हों ॥१४॥
भावार्थभाषाः - विद्वानों के संरक्षण में दोषों से बचकर ज्ञान का सेवन कर संसारसागर को पार करते हुए दिव्य सुखवाली मुक्ति के लिये यत्न करना चाहिये ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः-यं वाजसातौ-अवथ) हे विद्वांसः ! यं जनं खल्वमृतान्नभोगप्राप्तौ मुक्तिप्राप्तौ रक्षथ सम्पादयत “अमृतोऽन्नं वै वाजः” [जै०१।१९३] (यं त्रायध्वे) यमधिकारिणं भयात् त्रायध्वे पृथक् कुरुथ (यम्-अंहः अति पिपृथ) यं पापमतिक्राम्य पालयत (यः वः-गोपीथे भयस्य न वेद) यः खलु युष्माकं वाक्पाने वेदाध्ययने वेदाध्ययनाय किमपि भयं न वेत्ति, तथाभूतानां विदुषां संरक्षणे (देववीतये) दिव्यानां भोगानां वीतिः प्राप्तिर्यस्यां तस्यै मुक्त्यै “देववीतये दिव्यानां …… भोगानां प्राप्तिः” [यजु० ५।९ दयानन्दः] (ते तुरासः स्याम) ते वयं संसारसागरं तरन्तः-तीर्णाः “तुरः-तरतेर्वा” [निरु० १२।१४] भवेम ॥१४॥