वांछित मन्त्र चुनें

आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् । इन्द्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

ā no barhiḥ sadhamāde bṛhad divi devām̐ īḻe sādayā sapta hotṝn | indram mitraṁ varuṇaṁ sātaye bhagaṁ svasty agniṁ samidhānam īmahe ||

पद पाठ

आ । नः॒ । ब॒र्हिः । स॒ध॒ऽमादे॑ । बृ॒हत् । दि॒वि । दे॒वान् । ई॒ळे॒ । सा॒दय॑ । स॒प्त । होतॄ॑न् । इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥ १०.३५.१०

ऋग्वेद » मण्डल:10» सूक्त:35» मन्त्र:10 | अष्टक:7» अध्याय:8» वर्ग:7» मन्त्र:5 | मण्डल:10» अनुवाक:3» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ईळे) हे परमात्मन् ! मैं तेरी स्तुति करता हूँ, अतः तू (नः) हमारे हर्षप्राप्ति के सह स्थान-महान् ज्ञानप्रकाशवाले अध्यात्मयज्ञ में (देवान् सप्त होतॄन्-आ सादय) अध्यात्मयज्ञ के सात ऋत्विक् दिव्य गुणोंवाले मन बुद्धि चित्त अहंकार नेत्र कान वाणी को सिद्ध कर-शक्तिसम्पन्न कर (सातये) आनन्दलाभ के लिये (इन्द्रं मित्रं वरुणं भगम्) तुझ ऐश्वर्यवान् प्रेरक वरनेवाले भजनीय परमात्मा की मैं स्तुति करता हूँ (स्वस्त्य०) आगे पूर्ववत् ॥१०॥
भावार्थभाषाः - मन, बुद्धि, चित्त, अहंकार, नेत्र, कान और वाणी के द्वारा परमात्मा का ध्यान उपासना आदि कर्म करके मनुष्य ऐश्वर्यवान् प्रेरक वरनेवाले भजनीय परमात्मा को अनुकूल बनाकर ऊँचा अध्यात्मसुख प्राप्त करता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ईळे) हे परमात्मन् ! अहं त्वां स्तौमि, अतस्त्वम् (नः) अस्माकम् (सधमादे बृहत्-दिवि बर्हिः) सहहर्षप्राप्तिस्थाने बृहति ज्ञानप्रकाशकेऽध्यात्मयज्ञे (देवान् सप्त होतॄन् आसादय) अध्यात्मयज्ञस्य सप्तहोतॄन् मनोबुद्धिचित्ताहङ्कारान् चक्षुःश्रोत्र-वाचश्च समन्तात् साधय (सातये) अध्यात्मानन्दलाभाय त्वाम् (इन्द्रं मित्रं वरुणं भगम्) ऐश्वर्यवन्तं प्रेरयितारं वरयितारं भजनीयं परमात्मानं खल्वहमीळे स्तौमि (स्वस्त्य०) पूर्ववत् ॥१०॥