वांछित मन्त्र चुनें

नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते । दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥

अंग्रेज़ी लिप्यंतरण

nīcā vartanta upari sphuranty ahastāso hastavantaṁ sahante | divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṁ nir dahanti ||

पद पाठ

नी॒चाः । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ । दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥ १०.३४.९

ऋग्वेद » मण्डल:10» सूक्त:34» मन्त्र:9 | अष्टक:7» अध्याय:8» वर्ग:4» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नीचा वर्त्तन्ते-उपरि स्फुरन्ति) ये जुए के पाशे कभी नीचे गये हुए अर्थात् स्वाधीन होते हैं, कभी ऊपर अर्थात् जुआरी को हरानेवाले होते हैं (अहस्तासः-हस्तवन्तं सहन्ते) हाथों से रहित हुए या हाथ से छूटे हुए हाथवाले-हाथ से फैंकनेवाले जुआरी मनुष्य को अभिभूत करते हैं-उसे दबाते हैं (दिव्याः अङ्गाराः) अलौकिक अङ्गारे बने हुए (इरिणे न्युप्ताः शीताः सन्तः) तृण-काष्ठ आदि रहित प्रदेश में गिरे हुए ठण्डे होते भी (हृदयं निर्दहन्ति) जुआरी के अन्तःकरण को दग्ध करते हैं-जलाते हैं। यह जुए का दुष्फल है ॥९॥
भावार्थभाषाः - जुए के पाशे चाहे हराते हुए हों, चाहे जिताते हुए हों, वे ठण्डे अङ्गारे से बनकर जुआरी के हृदय को जलाते रहते हैं-अशान्त किये रहते हैं, इसलिये जुआ खेलना बुरा है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नीचा वर्त्तन्ते-उपरि स्फुरन्ति) एतेऽक्षा द्यूत-साधनपदार्थाः कदाचित् खलु नीचा नीचैर्गताः स्वाधीना वर्त्तन्ते कदाचित् खलूपरि प्रगच्छन्ति कितवस्य पराजयकरा भवन्ति (अहस्तासः हस्तवन्तं सहन्ते) हस्तरहिताः सन्तो हस्ताच्च्युता वा हस्तवन्तं हस्तेन क्षेप्तारं कितवं द्यूतकारिणं जनमभिभवन्ति। (दिव्याः-अङ्गाराः) अलौकिका अङ्गाराः (इरिणे न्युप्ताः शीताः सन्तः) ओषधिरहिते तृणकाष्ठादिरहिते प्रदेशे “इरिणं निर्ऋणम्-ऋणातेरपार्णं भवति अपरता अस्मादोषधय इति वा” [निरु०९।६] निक्षिप्ताः शीताः सन्तोऽपि (हृदयं निर्दहन्ति) कितवस्य द्यूतकारिणो हृदयमन्तःकरणं निर्दग्धं कुर्वन्ति, इति द्यूतस्य दुष्फलम् ॥९॥