वांछित मन्त्र चुनें

जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑त॒: क्व॑ स्वित् । ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥

अंग्रेज़ी लिप्यंतरण

jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit | ṛṇāvā bibhyad dhanam icchamāno nyeṣām astam upa naktam eti ||

पद पाठ

जा॒या । त॒प्य॒ते॒ । कित॒वस्य॑ । ही॒ना । मा॒ता । पु॒त्रस्य॑ । चर॑तः । क्व॑ । स्वि॒त् । ऋ॒ण॒ऽवा । बि॒भ्य॒त् । धन॑म् । इ॒च्छमा॑नः । अ॒न्येषा॑म् । अस्त॑म् । उप॑ । नक्त॑म् । ए॒ति॒ ॥ १०.३४.१०

ऋग्वेद » मण्डल:10» सूक्त:34» मन्त्र:10 | अष्टक:7» अध्याय:8» वर्ग:4» मन्त्र:5 | मण्डल:10» अनुवाक:3» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कितवस्य हीना जाया तप्यते) जुआरी की पत्नी धन-आभूषण से क्षीण हुई सन्तप्त रहती है (क्व स्वित्-चरतः पुत्रस्य माता) कहीं-कहीं इधर-उधर भटकते हुए जुआरी पुत्र की माता भी सन्तप्त रहती है, (ऋणावा बिभ्यत्) ऋणी होकर ऋण देनेवाले से डरता रहता है, (धनम्-इच्छमानः) धन को चाहता हुआ (अन्येषाम्-अस्तं नक्तम्-उप-एति) दूसरों के घर रात्रि में चोरी करने चला जाता है, यह जुआरी की दुर्दशा होती है ॥१०॥
भावार्थभाषाः - जुआरी के घर में पत्नी भी दुःखी रहती है। स्वयं भी वह ऋण देनेवाले से भय खाये रहता है। दुखी होकर के घरों में चोरी करने लगता है। यह दुर्दशा जुआ खेलने से होती है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कितवस्य हीना जाया तप्यते) द्यूतकारिणो जनस्य धनाभूषणैः क्षीणा सती पत्नी सन्तापयुक्ता भवति (माता क्वस्वित्-चरतः पुत्रस्य) क्वापि विचरतः पुत्रस्य माताऽपि पीडिता भवति (ऋणावा बिभ्यत्) ऋणवान् सन् बिभेति ऋणदातृतः (धनम्-इच्छमानः) धनमाकाङ्क्षन् (अन्येषाम्-अस्तं नक्तम् उप-एति) अन्येषां गृहं रात्रौ गच्छति चौर्यकरणाय, इति द्यूतकारिणो दुर्दशा भवति ॥१०॥