वांछित मन्त्र चुनें

नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच । इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥

अंग्रेज़ी लिप्यंतरण

nidhīyamānam apagūḻham apsu pra me devānāṁ vratapā uvāca | indro vidvām̐ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām ||

पद पाठ

नि॒ऽधी॒यमा॑नम् । अप॑ऽगूळ्हम् । अ॒प्ऽसु । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ । इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥ १०.३२.६

ऋग्वेद » मण्डल:10» सूक्त:32» मन्त्र:6 | अष्टक:7» अध्याय:7» वर्ग:30» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (देवानां व्रतपाः) विद्या की कामना करनेवालों का व्रतपालक आचार्य (अप्सु-अपगूळ्हं निधीयमानम्-त्वा-मे-प्र-उवाच) सब और व्याप्त परमाणुओं में तथा प्राणों में अन्तर्हित स्वयं विराजमान तुझे मेरे लिये उपदेश देता है। क्योंकि (विद्वान्-इन्द्रः-हि) ज्ञानदीप्तिमान् ही आचार्य (अनु चचक्ष) अनुदृष्ट किया-अनुभव किया (तेन-अनुशिष्टः-अहम्-आ-अगाम्) उस प्रखर विद्वान् आचार्य के द्वारा शिक्षा पाया हुआ मैं तुझे साक्षात् करने को-ध्यान को प्राप्त हुआ हूँ ॥६॥
भावार्थभाषाः - विद्या की कामना करनेवाले का आचार्य संसार के परमाणु-परमाणु में और प्राणों में व्याप्त है। उपासक उसको अपने अन्दर साक्षात् करते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (देवानां व्रतपाः) विद्याकामानां व्रतपालक आचार्यः (अप्सु-अपगूळ्हं निधीयमानम्-त्वा मे प्र उवाच) सर्वत्र व्याप्तेषु प्रकृतिपरमाणुषु तथा मदीयशरीरस्थप्राणेषु खल्वन्तर्हितः तथा स्वतः स्थीयमानं मह्यं प्रावोचत्-यतः (विद्वान् इन्द्रः-हि) विद्वान् ज्ञानदीप्तिमान् आचार्यो हि (अनुचचक्ष) त्वामनुदृष्टवान्-अनुभूतवान् (तेन-अनुशिष्टः-अहम्-आ-अगाम्) तेन विदुषा प्रखरेणाचार्येण लब्धशिक्षोऽहं त्वां द्रष्टुं साक्षात्कर्त्तुं  ध्यानस्थानमागतोऽस्मि ॥६॥