वांछित मन्त्र चुनें

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरन्त ॥

अंग्रेज़ी लिप्यंतरण

kiṁ svid vanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | saṁtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta ||

पद पाठ

किम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । स॒न्त॒स्था॒ने इति॑ स॒म्ऽत॒स्था॒ने । अ॒जरे॒ इति॑ । इ॒तऊ॑ती॒ इती॒तःऽऊ॑ती । अहा॑नि । पू॒र्वीः । उ॒षसः॑ । ज॒र॒न्त॒ ॥ १०.३१.७

ऋग्वेद » मण्डल:10» सूक्त:31» मन्त्र:7 | अष्टक:7» अध्याय:7» वर्ग:28» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (किं स्वित्-वनम्) वह वन कौनसा है (कः-उ सः-वृक्षः-आस) और कौन वह वृक्ष है (यतः-द्यावापृथिवी निष्टतक्षुः) जिससे कि द्युलोक और पृथ्वीलोक को रचा है। (सन्तस्थाने) जो कि सम्यक् संस्थित (अजरे) जरारहित (इत-ऊती) इस प्राणी लोक से सुरक्षित है (अहानि पूर्वीः-उषसः-जरन्त) जिससे मध्य में वर्त्तमान दिन-अहोरात्र और पूर्व से चली आई उषाएँ परम्परा से प्राप्त प्रातर्वेलाएँ जीर्ण हो जाती हैं ॥७॥
भावार्थभाषाः - परमात्मा ने अपने व्यापक तथा प्रकाशक स्वरूप से सृष्टि के प्रमुख द्युमण्डल और पृथ्वीमण्डल को रचा है और इसके बीच में दिन-रातों तथा प्रभातवेलाओं को प्रकट किया, जो अन्य प्राणी आदि वस्तुओं की जीर्णता के साथ जीर्णता को प्राप्त होती रहती हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (किं स्वित्-वनम्) किं खलु वनमरण्यम् (कः उ सः-वृक्षः-आस) तत्रत्यः को हि स वृक्षः अस्ति (यतः द्यावापृथिवी निष्टतक्षुः) यतो हि द्युलोकं पृथिवीलोकं च निष्पादितवान् परमात्मा, बहुवचनमादरार्थम्, ये च द्यावापृथिव्यौ (सन्तस्थाने) सम्यक् स्थिरे (अजरे) जरारहिते सामान्येन नाशरहिते (इतः-ऊती) इतो लोकात्-प्राणिलोकात् सुरक्षिते स्तः (अहानि पूर्वीः-उषसः-जरन्त) ययोर्मध्ये वर्त्तमानानि दिनानि पूर्वतः प्रवृत्ताः-उषसो जीर्णतां गच्छन्ति, इति विश्वकर्मणः परमात्मनः कर्मशिल्पं विवेच्यते ॥७॥