वांछित मन्त्र चुनें

अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः । अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥

अंग्रेज़ी लिप्यंतरण

asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ | asya sanīḻā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ ||

पद पाठ

अ॒स्य । इत् । ए॒षा । सु॒ऽम॒तिः । प॒प्र॒था॒ना । अभ॑वत् । पू॒र्व्या । भूम॑ना । गौः । अ॒स्य । सऽनी॑ळाः । असु॑रस्य । योनौ॑ । स॒मा॒ने । आ । भर॑णे । बिभ्र॑माणाः ॥ १०.३१.६

ऋग्वेद » मण्डल:10» सूक्त:31» मन्त्र:6 | अष्टक:7» अध्याय:7» वर्ग:28» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य-इत्) इस परमात्मा की (एषा पूर्व्या सुमतिः-गौः) यह अच्छी स्तुतियोग्य शाश्वतिक-सदा से चली आई वाणी (पप्रथाना भूमना-अभवत्) विस्तार को प्राप्त होती हुई बहुत रूपवाली है (अस्य-असुरस्य) इन सबको प्राण देनेवाले परमात्मा के (समाने योनौ) समान आश्रय (भरणे) धरणीय स्वरूप में (बिभ्रमाणाः) अपने को समर्पित करते हुए (सनीळाः-आ) समानस्थानी होकर रहें ॥६॥
भावार्थभाषाः - प्राणस्वरूप परमात्मा की स्तुति शाश्वतिक वेदवाणी द्वारा विस्तृत होती है। तदनुसार स्तुति करनेवाले मोक्ष में समान आश्रय को प्राप्त होते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य इत् एषा सुमतिः पूर्व्या गौः पप्रथाना भूमना-अभवत्) अस्य परमात्मन एव हि खल्वेषा सुमतिः सुस्तुतियोग्या शाश्वतिकी वाक् विस्तारमाप्नुवाना बहुरूपा भवति (अस्य-असुरस्य) एतस्य सर्वेभ्यः प्राणप्रदस्य (समाने योनौ) समाने खल्वाश्रये (भरणे) धारणीये स्वरूपे (बिभ्रमाणाः) स्वात्मानं धरन्तः (सनीळाः-आ) समानस्थाना आतिष्ठेम ॥६॥