वांछित मन्त्र चुनें

अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमा॑: । अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥

अंग्रेज़ी लिप्यंतरण

adhāyi dhītir asasṛgram aṁśās tīrthe na dasmam upa yanty ūmāḥ | abhy ānaśma suvitasya śūṣaṁ navedaso amṛtānām abhūma ||

पद पाठ

अधा॑यि । धी॒तिः । अस॑सृग्रम् । अंशाः॑ । ती॒र्थे । न । द॒स्मम् । उप॑ । य॒न्ति॒ । ऊमाः॑ । अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य॑ । शू॒षम् । नवे॑दसः । अ॒मृता॑नाम् । अ॒भू॒म॒ ॥ १०.३१.३

ऋग्वेद » मण्डल:10» सूक्त:31» मन्त्र:3 | अष्टक:7» अध्याय:7» वर्ग:27» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धीतिः-अधायि) योगप्रज्ञा-योगबुद्धि धारण की जाती है (न-अंशाः-ऊमाः) तो तब ही ध्यान के प्रवाह उपासक के रक्षा करनेवाले हो जाते हैं, जो कि (तीर्थे) संसारसागर से तराने के निमित्त (अससृग्रं दस्मम्-उप यन्ति) अपूर्व अध्यात्म जन्म दर्शनीय को प्राप्त कराते हैं (सुवितस्य शूषम्-अभि आनश्म) शोभनरूप परमात्मा के सुख को हम प्राप्त होवें (नवेदसः-अमृतानाम्-अभूम) हम अवश्य ज्ञानवान् हुए मुक्तों में हो जावें, मुक्त हो जावें ॥३॥
भावार्थभाषाः - योगबुद्धि प्राप्त हो जाने पर ध्यान के प्रवाह योगी को संसारसागर से तारनेवाले बन जाते हैं और उसका अपूर्व अध्यात्म जन्म होकर वह मुक्ति का अधिकारी बन जाता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धीतिः-अधायि) योगप्रज्ञा “ऋतस्य धीतिः-ऋतस्य प्रज्ञा” [निरु०१०।४०] धारिता सम्पादिता भवति (न-अंशाः-ऊमाः) सम्प्रति तदा ध्यानप्रवाहाः-रक्षणकर्त्तारो भवन्तः (तीर्थे) संसारसागरस्य तारकनिमित्तम् “तीर्थेन हि तरन्ति तद्यथा समुद्रतीर्थेन प्रतरेयुः [गो०१।५।२] (अससृग्रं दस्मम्-उपयन्ति) अनुपममपूर्वमध्यात्मजन्म दर्शनीयमुपगमयन्ति “अत्रान्तर्गतो णिजर्थः”, (सुवितस्य शूषम्-अभ्यानश्म) सुगतस्य शोभनरूपस्य परमात्मनः सुखं प्राप्नुमः “शूषं सुखनाम” [निघ०३। ६] (नवेदसः-अमृतानाम्-अभूम) वयं नवेदसः-अवश्यं वेत्तारो वयं ज्ञानिनः “नभ्राण्नपान्नवेद………” [अष्टा० ६।३।७६] इति निपातनं न-अवेद मुक्तानां मध्ये भवेम॥३॥