वांछित मन्त्र चुनें

प्रास्मै॑ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो व॑: सिन्धवो॒ मध्व॒ उत्स॑: । घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥

अंग्रेज़ी लिप्यंतरण

prāsmai hinota madhumantam ūrmiṁ garbho yo vaḥ sindhavo madhva utsaḥ | ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me ||

पद पाठ

प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । गर्भः॑ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः॑ । उत्सः॑ । घृ॒तऽपृ॑ष्ठम् । ईड्य॑म् । अ॒ध्व॒रेषु॑ । आपः॑ । रे॒व॒तीः॒ । शृ॒णु॒त । हव॑म् । मे॒ ॥ १०.३०.८

ऋग्वेद » मण्डल:10» सूक्त:30» मन्त्र:8 | अष्टक:7» अध्याय:7» वर्ग:25» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सिन्धवः) हे राष्ट्र को बाँधनेवाली-थामनेवाली आधारभूत प्रजाओं ! (वः) तुम्हारा-तुम्हारे द्वारा दिया हुआ (यः-गर्भः-उत्सः) जो राजा द्वारा ग्राह्य भाग उत्कृष्ट है (मधुमन्तम्-ऊर्मिम्-अस्मै-प्रहिनोत) उस मधुर उल्लासरूप-प्रसन्नताकारक को इस राजा के लिये देओ (घृतपृष्ठम्-ईड्यम्) जो कि तेजस्वी प्रेरणा देनेवाला है, उसे देओ (अध्वरेषु रेवतीः आपः-मे हवं शृणुत) हे धन धान्यवाली प्रजाओं ! राजसूययज्ञप्रसङ्गों में मुझ पुरोहित के वचन को सुनो-स्वीकार करो ॥८॥
भावार्थभाषाः - प्रजाएँ राष्ट्र का आधार हैं, उनकी ओर से मर्यादा से दिया हुआ राजा के लिये उपहारभाग ग्रहण करने योग्य है, राष्ट्रकार्य में उत्साह व प्रेरणा का देनेवाला है, इसलिये अवश्य देना चाहिये ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सिन्धवः) हे राष्ट्रस्य बन्धयित्र्यस्तस्याधारभूताः प्रजाः “तद्यदेतैरिदं सर्वं सितं तस्मात् सिन्धवः” [जै० उ० १।९।२।९] (वः) युष्माकम् (यः-उत्सः-गर्भः) गर्भ इव ग्राह्यो राजग्राह्यो भागो मर्यादात उत्कृष्टोऽस्ति (मधुमन्तम्-ऊर्मिम्-अस्मै प्र हिनोत) तं मधुरमुल्लासरूपमस्मै राज्ञे प्रेरयत-प्रयच्छत (घृतपृष्ठम्-ईड्यम्) घृतम् तेजः पश्चाद्यस्य तथा च-अध्येषणीयं प्रदेयमेव तं प्रयच्छतेति सम्बन्धः (अध्वरेषु रेवतीः आपः मे हवं शृणुत) हे धनधान्यवत्यः प्रजाः ! राजसूययज्ञप्रसङ्गेषु मम पुरोहितस्य वचनं शृणुत-मन्यध्वम् ॥८॥