वांछित मन्त्र चुनें

एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥

अंग्रेज़ी लिप्यंतरण

emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ | ni barhiṣi dhattana somyāso pāṁ naptrā saṁvidānāsa enāḥ ||

पद पाठ

आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ । नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥ १०.३०.१४

ऋग्वेद » मण्डल:10» सूक्त:30» मन्त्र:14 | अष्टक:7» अध्याय:7» वर्ग:26» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमाः-रेवतीः-जीवधन्याः-आ-अग्मन्) ये ऐश्वर्यवाली प्राणियों में पोषणरूप धन की प्रेरणा करनेवाली प्रजाएँ राजसूय यज्ञ में आती हैं (अध्वर्यवः सखायः-सादयत) हे राजसूययज्ञ के नेता विद्वानों ! उन्हें तुम सद्भाव से बैठाओ (बर्हिषि निधत्तन) तथा राष्ट्र के योग्य अधिकार में नियुक्त करो (सोम्यासः) हे सोम सम्पादन करनेवाले ऋत्विक् लोगो ! (अपां नप्त्रा संविदानासः-एनाः) प्रजाओं के पालन करनेवाले राजा द्वारा एक मत हुई प्रजाओं को मन्त्रणा में भाग दो ॥१४॥
भावार्थभाषाः - प्रजाएँ राष्ट्र में राष्ट्रिय जीवन को बल देनेवाली होती हैं। उनसे यथायोग्य सहयोग लेना और अवसर-अवसर पर मन्त्रणा करनी चाहिये ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमाः रेवतीः-जीवधन्याः-आ-अग्मन्) एताः श्रीमत्यः खलु जीवेषु धन्याः प्राणिषु पोषणधनाय हिताः “जीवधन्या जीवेषु धन्या धनाय हिताः” [ऋ० १।८०।४ दयानन्दः] प्रजाः खलु राजसूययज्ञमागच्छन्ति (अध्वर्यवः सखायः सादयत) हे राजसूययज्ञस्य नेतारो विद्वांसः ! यूयं ता उपवेशयत (बर्हिषि निधत्तन) राष्ट्रलोके नियोजयत “अयं लोको बर्हिः” [श० १।४।१।१४] (सोम्यासः) राज्यैश्वर्य-सम्पादिनोऽध्वर्यवः (अपां नप्त्रा संविदानासः-एनाः) यत एताः प्रजाः प्रजानां न पातयित्रा राज्ञा सहैकमत्यं गता यद्वा तेन सह मन्त्रणं कुर्वाणा वर्त्तन्ते तस्मात्ता उपवेशयत ॥१४॥