वांछित मन्त्र चुनें

कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रस॒य कन्न॒ आग॑न् । मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥

अंग्रेज़ी लिप्यंतरण

kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan | mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ ||

पद पाठ

कत् । ऊँ॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑तः । नॄन् । कया॑ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् । मि॒त्रः । न । स॒त्यः । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षाः ॥ १०.२९.४

ऋग्वेद » मण्डल:10» सूक्त:29» मन्त्र:4 | अष्टक:7» अध्याय:7» वर्ग:22» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र कत्-उ द्युम्नम्) हे ऐश्वर्यवन् ! परमात्मन् ! कब ही हमारे अन्दर वह यश होगा (त्वावतः नॄन् कया धिया करसे) तेरे जैसे मुक्त हम उपासक जनों को किस स्तुति से करेगा (कत् नः-आ-अगन्) कब मैं प्राप्त होऊँगा (उरुगाय) हे बहुत स्तुति करने योग्य या बहुत कीर्तन करने योग्य परमात्मन् ! (सत्यः-मित्रः-न) स्थिर मित्र के समान (भृत्यै) पोषण के लिये (समस्य) सब के (अन्ने) अन्न प्रदान करने के निमित्त-भोगप्रदान करने के निमित्त (मनीषाः-यत्-असन्) स्तुतियाँ जिससे सफल होवें ॥४॥
भावार्थभाषाः - परमात्मा उपासक जनों का मित्र है, उसकी विशेष स्तुति करनी चाहिये, जिससे संसार में रहते हुए ऊँचा यशस्वी बने और मुक्ति में उसके सङ्ग का आनन्दलाभ ले सके ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र कत्-उ द्युम्नम्) हे ऐश्वर्यवन् परमात्मन् ! कदा हि खल्वस्मासु तद्यशो भविष्यति ‘द्युम्नं द्योततेर्यशो वाऽन्नं वा” [निरु० ५।५] येन (त्वावतः नॄन् कया धिया करसे) त्वत्सदृशान् मुक्तान्-अस्मान् जनान् कया च स्तुत्या करिष्यसि (कत्-नः-आ-अगन्) कदाऽस्मान् प्राप्तो भविष्यसि (उरुगाय) हे बहुस्तुतियोग्य वा बहुकीर्तनीय परमात्मन् ! (सत्यः-मित्रः-न) स्थिरसखेव (भृत्यै) भरणाय पोषणाय (समस्य) सर्वस्य (अन्ने) अन्नप्रदाननिमित्तम् (मनीषाः-यत्-असन्) स्तुतयो याः सन्ति यतः सफला भवेयुः ॥४॥