वांछित मन्त्र चुनें

कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व । कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नै॑: ॥

अंग्रेज़ी लिप्यंतरण

kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva | kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṁ rādho annaiḥ ||

पद पाठ

कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ । कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥ १०.२९.३

ऋग्वेद » मण्डल:10» सूक्त:29» मन्त्र:3 | अष्टक:7» अध्याय:7» वर्ग:22» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते) तेरे लिये (कः-मदः-रन्त्यः-भूत्) कौनसा स्तुतिसमूह-मन्त्रभाग रमण करने योग्य है, जो भी हो (दुरः-अभि धाव) उसे द्वार बनाकर प्राप्त हो (गिरः-वि० “धाव”) हमारे प्रार्थनावचनों के प्रति विशिष्टरूप से प्राप्त हो, उन्हें स्वीकार कर (मनीषा कद्-वाहः-अर्वाक्-मा-उप) स्तुति के द्वारा कब हमारे वहनीय-प्रापणीय तू मुझे-मेरी ओर प्राप्त होगा (अन्नैः) उपासना-रसों द्वारा (उपमं त्वा राधः) समीप वर्तमान तुझ आराधनीय परमात्मा को (आ शक्याम्) प्राप्त कर सकूँ ॥३॥
भावार्थभाषाः - उपासक को परमात्मा की ऐसे मन्त्रों द्वारा स्तुतियाँ करनी चाहिये, जिससे कि वह परमात्मा उन्हें स्वीकार करे और अपने अन्दर किये उपासनाभावों से वह प्राप्त हो सके ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते) तुभ्यम् (कः मदः रन्त्यः-भूत्) कः स्तुतिसमूहः स्तुतिमन्त्रभागो रमणयोग्यो भवति योऽपि स्यात् (दुरः अभि धाव) तं द्वारमभिलक्ष्य प्राप्तो भव “दुरः” बहुवचनं व्यत्ययेन (गिरः वि० “धाव”) अस्माकं प्रार्थनावाचः प्रति विशिष्टतया प्राप्तो भव ताः स्वीकुरु (मनीषा कद्-वाहः-अर्वाक्-मा-उप) स्तुत्या “मनीषा मनीषया स्तुत्या” [निरु० २।२५] कदाऽस्माकं वहनीयः प्रापणीयस्त्वं मामभिमुखमुप गमिष्यसि (अन्नेः) सोमैरुपासनारसैः “अन्नं वै सोमः” [श० ३।९।१।८] (उपमं त्वा राधः) समीपं वर्त्तमानं त्वां राधनीयं परमात्मानम् (आ शक्याम्) प्राप्तुं शक्नुयाम्-इत्याशासे ॥३॥