वांछित मन्त्र चुनें

सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अ॒न्तः । अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥

अंग्रेज़ी लिप्यंतरण

saṁ yad vayaṁ yavasādo janānām ahaṁ yavāda urvajre antaḥ | atrā yukto vasātāram icchād atho ayuktaṁ yunajad vavanvān ||

पद पाठ

सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ । अत्र॑ । यु॒क्तः॑ । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥ १०.२७.९

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:9 | अष्टक:7» अध्याय:7» वर्ग:16» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जनानाम्) उत्पन्न हुओं के मध्य में (यत्-वयं यवादः) जिससे कि हम अन्न खानेवाले मनुष्य (यवसादः) घास खानेवाले गौ आदि पशु हैं-उन सबके (उर्वज्रे-अन्तः) महान् प्राप्तिस्थान हृदय में (अहम्-सम्) मैं परमात्मा सम्यक् विराजमान हूँ। (अत्र युक्तः) इस हृदय में युक्त हुआ हूँ (अवसातारम्-इच्छात्) मुझ सहयोगी परमात्मा की उपासक इच्छा करे (अथो) और (ववन्वान्) सङ्ग को चाहता हुआ-चाहने के हेतु (अयुक्तं युनजत्) योग में न लगे अर्थात् अस्थिर मन को युक्त करे ॥९॥
भावार्थभाषाः - उत्पन्न हुए प्राणियों, अन्न खानेवाले मनुष्यों और घास खानेवाले पशुओं के हृदय में परमात्मा विराजमान है। उस सहयोगी परमात्मा को समागमार्थ चाहे और मनको उसके अन्दर जोड़े-लगावे ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जनानाम्) जन्यमानानां मध्ये (यत्-वयं यवादः) यतो वयमन्नभोक्तारो मनुष्या “यवं दुहन्ता अन्नं दुहन्तौ” [निरु० ६।२६] (यवसादः) घासस्य भोक्तारो गवादयः पशवश्च तेषां सर्वेषां (उर्वज्रे अन्तः) महत्प्रापणस्थाने अन्तः हृदये (अहम् सम्) अहं परमात्मा सम्यग् विराजे (अत्र युक्तः) अत्र हृदये युक्तः सन् (अवसातारम्-इच्छात्) सहयोगभाजिनमुपासक इच्छेत् (अथो) अथ च (ववन्वान्) सम्भजमानः सम्भजनहेतोः (अयुक्तं युनजत्) अयोगिनं योगमनपेक्षमाणं मनो योजयेत् ॥९॥