वांछित मन्त्र चुनें

यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून्त॒न्वा॒३॒॑ शूशु॑जानान् । अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं प॑ञ्चद॒शं नि षि॑ञ्चम् ॥

अंग्रेज़ी लिप्यंतरण

yadīd ahaṁ yudhaye saṁnayāny adevayūn tanvā śūśujānān | amā te tumraṁ vṛṣabham pacāni tīvraṁ sutam pañcadaśaṁ ni ṣiñcam ||

पद पाठ

यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् । अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥ १०.२७.२

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:2 | अष्टक:7» अध्याय:7» वर्ग:15» मन्त्र:2 | मण्डल:10» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते-अमा) हे ऐश्वर्यवन् परमात्मन् ! तेरी सहायता से (यदि-इत्-अहं युधये) यदि तो मैं उपासक युद्ध के लिये उद्यत हो जाऊँ (तन्वा शूशुजानान्) शरीर से जाज्वल्यमान क्रोधित हुए (अदेवयून्) जो तुझे अपना इष्टदेव नहीं मानते, उन ऐसे नास्तिकों को (सम्-नयानि) सम्यक् प्रभावित करता हूँ-तेरे उपासक आस्तिक बनाता हूँ। (तुम्रं वृषभं पचानि) घोर घातक वृषभ समान पाप को खा जाता हूँ-नष्ट करता हूँ (तीव्रं सुतम्-पञ्चदशं नि षिञ्चम्) प्रबल सिद्ध ओज को अपने मन में आत्मा में पूर्ण धारण करता हूँ ॥२॥
भावार्थभाषाः - परमात्मा की सहायता से उपासक जन बड़े क्रोधी और नास्तिक जनों के साथ आत्मशक्ति से युद्ध करके उनको परमात्मा के उपासक-आस्तिक बनाते हैं और अपने अन्दर के प्रबल पापों को समाप्त करते हैं तथा निज मन और आत्मा में ओज-आत्मिक तेज को धारण करते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते-अमा) हे इन्द्र-ऐश्वर्यवन् परमात्मन् ! तव साहाय्येन (यदि-इत्-अहम् युधये) यदि ह्यहमुपासको युद्धाय खलूद्यतो भवेयम् (तन्वा शूशुजानान्) शरीरेण शूशुचानान् जाज्वल्यमानान् ‘चकारस्थाने जकारश्छान्दसः’ (अदेवयून्) ये त्वां स्वदेवं परमात्मानं न मन्यन्ते तथाभूतान् नास्तिकान् (सम् नयानि) सम्प्रभावयामि त्वदुपासकान्-आस्तिकान् सम्पादयामि (तुम्रं वृषभं पचानि) आहन्तारम् “तुम्रः आहन्ता” [ऋ० ३।५०।१ दयानन्दः] वृषभमिव पापं भक्षयामि-नाशयामि (तीव्रं सुतम्-पञ्चदशं नि षिञ्चम्) प्रबलं निष्पन्नमोजः “ओजो वै पञ्चदशः” [मै० ३।२।१०] निजे मनसि यद्वा-आत्मनि निषिञ्चामि-निधारयामि ॥२॥