वांछित मन्त्र चुनें

अस॒त्सु मे॑ जरित॒: साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् । अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥

अंग्रेज़ी लिप्यंतरण

asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam | anāśīrdām aham asmi prahantā satyadhvṛtaṁ vṛjināyantam ābhum ||

पद पाठ

अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् । अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥ १०.२७.१

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:1 | अष्टक:7» अध्याय:7» वर्ग:15» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में परमात्मा जीवात्मा के गुण, सृष्टिरचना, शरीररचना आदि का उपदेश है।

पदार्थान्वयभाषाः - (जरितः) हे स्तुति करनेवाले उपासक ! (मे) मेरा (सः-अभिवेगः) वह शाश्वतिक स्वभाव (सु-असत्) कल्याणकारी है, (यत्) कि जो (सुन्वते यजमानाय शिक्षम्) उपासनारस निष्पादन करनेवाले-अपने आत्मा को समर्पित करनेवाले आत्मयाजी के लिये निज आनन्द को मैं देता हूँ (अनाशीर्दाम्) प्रार्थना न करनेवाले-नास्तिक (सत्यध्वृतं वृजिनायन्तम्-आभुम्) एवं सत्यविनाशक पापाचरण करनेवाले आक्रमणकारी को (अहं-प्रहन्ता-अस्मि) मैं नष्ट करता हूँ ॥१॥
भावार्थभाषाः - परमात्मा का यह शाश्वतिक स्वभाव है कि वह अपने प्रति समर्पणकर्त्ता उपासक को अपना आनन्द प्रदान करता है और नास्तिक, पापाचरण, अन्यथा पीडक मनुष्य को नष्ट करता है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते परमात्मजीवात्मगुणाः सृष्टिरचना शरीररचनादयो विविधा विषयाः प्रदर्श्यन्ते।

पदार्थान्वयभाषाः - (जरितः) हे स्तोतः ! “जरिता स्तोतृनाम” [निघ० ३।१६] (मे) मम (सः अभिवेगः) ‘मन्त्रे सन्धिश्छान्दसः’ “सुपां सुलुक्० [अष्टा० ७।१।९] इति सोर्लुकि कृते” स खल्वभिवेगः शाश्वतिकः स्वभावः (सु-असत्) शोभनोऽस्ति (यत्) यतः (सुन्वते यजमानाय शिक्षम्) उपासनारसं निष्पादयते स्वात्मानं समर्पयतेऽध्यात्मयाजिने निजानन्तानन्दं ददामि “शिक्षतिर्दानकर्मा” [निघं० ३।२०] (अनाशीर्दाम्) आशीः प्रार्थना “बह्वी वै यजुः स्वाशीः” [श० १।२।१।७] “अथेयमितराशीराशास्ते” [निरु० ६।८] अनाशीर्दाः अस्तुतिप्रार्थनाकर्त्ता सामर्थ्यात्-अस्तोता नास्तिकस्तम् (अहं प्रहन्ता अस्मि) अहं प्रहन्मीति शीलवानस्मि (सत्यध्वृतं वृजिनायन्तम्-आभुम्) सत्यविनाशकं पापमाचरन्तम् आक्रमणकारिणं जनं च प्रहन्मि ॥१॥