वांछित मन्त्र चुनें

आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः । विश्व॑स्या॒र्थिन॒: सखा॑ सनो॒जा अन॑पच्युतः ॥

अंग्रेज़ी लिप्यंतरण

ā te rathasya pūṣann ajā dhuraṁ vavṛtyuḥ | viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ||

पद पाठ

आ । ते॒ । रथ॑स्य । पू॒ष॒न् । अ॒जाः । धुर॑म् । व॒वृ॒त्युः॒ । विश्व॑स्य । अ॒र्थिनः॑ । सखा॑ । स॒नः॒ऽजाः । अन॑पऽच्युतः ॥ १०.२६.८

ऋग्वेद » मण्डल:10» सूक्त:26» मन्त्र:8 | अष्टक:7» अध्याय:7» वर्ग:14» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पूषन्) हे पोषक परमात्मन् ! (ते रथस्य धुरम्) तेरे रमणीय मोक्ष के धारण-साधन को (अजाः-आ ववृत्युः) स्तुतियाँ आवर्तित करती हैं-आस्थापित करती हैं (विश्वस्य-अर्थिनः) सब उपासक प्रार्थी का (सनोजाः-अनपच्युतः सखा) शाश्वतिक अनश्वर मित्र है ॥८॥
भावार्थभाषाः - परमात्मा के आश्रय मोक्ष धाम की प्राप्ति उसकी स्तुतियों के द्वारा होती है। प्रत्येक उपासकों का वह शाश्वतिक अनश्वर मित्र है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पूषन्) हे पोषयितः परमात्मन् ! (ते रथस्य धुरम्) तव रमणीयस्य मोक्षस्य धारणं प्रापणं “धूः धारयतेः” [निरु० ३।९] (अजाः-आववृत्युः) वाचः स्तुतयः “वाग्वा अजा [श० ६।४।४।१५] आवर्तन्ते-आवर्तयन्ति-आस्थापयन्ति यतस्त्वम् (विश्वस्य अर्थिनः) सर्वस्योपासकस्य प्रार्थिनः (सनोजाः-अनपच्युतः सखा) सनातनकालात् प्रसिद्धः शाश्वतिकोऽनश्वरः सखाऽस्ति ॥८॥