वांछित मन्त्र चुनें

मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् । म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वम् ॥

अंग्रेज़ी लिप्यंतरण

maṁsīmahi tvā vayam asmākaṁ deva pūṣan | matīnāṁ ca sādhanaṁ viprāṇāṁ cādhavam ||

पद पाठ

मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् । म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च । आ॒ऽध॒वम् ॥ १०.२६.४

ऋग्वेद » मण्डल:10» सूक्त:26» मन्त्र:4 | अष्टक:7» अध्याय:7» वर्ग:13» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पूषन् देव) हे पोषणकर्त्ता परमात्मदेव ! (अस्माकं मतीनां च) हम तेरे अस्तित्व को माननेवालों के (साधनम्) ज्ञान एवं सुखसम्पन्न करानेवाले (विप्राणां च) और स्तुतियों के द्वारा तुझे प्रसन्न करनेवालों के (आधवम्) भली-भाँति आगे ले जानेवाले अथवा पाप कर्म से शोधनेवाले तुझको (मंसीमहि) मानते हैं-पूजते हैं ॥४॥
भावार्थभाषाः - उसके अस्तित्व माननेवाले, उस उत्पन्न पथ पर ले जानेवाले पापशासक परमात्मा को उपासक जन स्तुतियों द्वारा प्रसन्न करते हैं-अनुकूल बनाते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पूषन् देव) हे पोषयितर्देव परमात्मन् ! (अस्माकं मतीनां च) अस्मद्विधानां तव अस्तित्वं मन्यमानानां मेधाविनाम् “मतयो मेधाविनाम” [निघं० ३।१५] (साधनम्) साधयितारम्, तथा (विप्राणां च) स्तुतिभिस्त्वां प्रीणयितॄणां च (आधवम्) समन्तादग्रे गमयितारं त्वाम् (मंसीमहि) अर्चामः स्तुवीमहि “मन्यते-अर्चतिकर्मा” [निघं० ३।१४] ॥४॥