वांछित मन्त्र चुनें

तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे । गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥

अंग्रेज़ी लिप्यंतरण

tava tye soma śaktibhir nikāmāso vy ṛṇvire | gṛtsasya dhīrās tavaso vi vo made vrajaṁ gomantam aśvinaṁ vivakṣase ||

पद पाठ

तव॑ । त्ये । सो॒म॒ । शक्ति॑ऽभिः । निऽका॑मासः॑ । वि । ऋ॒ण्वि॒रे॒ । गृत्स॑स्य । धीराः॑ । त॒वसः॑ । वि । वः॒ । मदे॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । विव॑क्षसे ॥ १०.२५.५

ऋग्वेद » मण्डल:10» सूक्त:25» मन्त्र:5 | अष्टक:7» अध्याय:7» वर्ग:11» मन्त्र:5 | मण्डल:10» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शान्तस्वरूप परमात्मन् ! (गृत्सस्य तपसः-तव) श्रोताओं द्वारा वाञ्छित तुझ बलवान् के (त्ये निकामासः-धीराः) वे नियम से या नित्य तुझे चाहनेवाले ध्यानी उपासक (शक्तिभिः-ऋण्विरे) साधनाकर्मों-योगाभ्यासों के द्वारा तुझे प्राप्त होते हैं (गोमन्तम्-अश्विनं व्रजम्) प्रशस्त इन्द्रियोंवाले और प्रशस्त मनवाले शरीररूप स्थान को प्राप्त होते हैं (वः-मदे वि) तेरे हर्षप्रद स्वरूप के निमित्त विशेष स्तुति करते हैं (विवक्षसे) तू महान् है ॥५॥
भावार्थभाषाः - वाञ्छनीय परमात्मा का नियम से नित्य योगाभ्यास आदि द्वारा ध्यान करनेवाले उपासक जन शोभन इन्द्रियवाले और प्रशस्त मनवाले शरीर की प्राप्त होते हैं। तभी वे परमात्मा का हर्षप्रद स्वरूप अनुभव करते हैं ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शान्तस्वरूप परमात्मन् ! (गृत्सस्य तपसः तव) स्तोतृभिरभिकाङ्क्षितस्य “गृत्सः अभिकाङ्क्षितः” [ऋ० २।१९।८ दयानन्दः] बलवतस्तव (त्ये निकामासः-धीराः) ते नियमेन नित्यं वा त्वां कामयमाना धीमन्तो ध्यानिन उपासकाः “धीरसीत्याह यद्धि मनसा ध्यायति [तै० सं० ६।१।७।४] (शक्तिभिः-ऋण्विरे) साधनाकर्मभिर्योगाभ्यासैः” ‘शक्तिः कर्मनाम” [निघं० २।१] त्वां प्राप्नुवन्ति (गोमन्तम्-अश्विनं व्रजम्) प्रशस्तेन्द्रियवन्तं प्रशस्तमनस्विनं शरीररूपं स्थानं च प्राप्नुवन्ति (वः-मदे वि) तव हर्षप्रदस्वरूपनिमित्ते विशिष्टं स्तुवन्तीति शेषः (विवक्षसे) त्वं महानसि ॥५॥