वांछित मन्त्र चुनें

हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु । अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥

अंग्रेज़ी लिप्यंतरण

hṛdispṛśas ta āsate viśveṣu soma dhāmasu | adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase ||

पद पाठ

हृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु । अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥ १०.२५.२

ऋग्वेद » मण्डल:10» सूक्त:25» मन्त्र:2 | अष्टक:7» अध्याय:7» वर्ग:11» मन्त्र:2 | मण्डल:10» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शान्तस्वरूप परमात्मन् ! (विश्वेषु धामसु) समस्त स्थानों में अथात् सर्वत्र (ते) तेरे लिये-तुझे प्राप्त करने को (हृदिस्पृशः) हृदयगत (इमे मम कामाः) ये मेरी कामनाएँ (आसते) रहती हैं। (अधः) इसलिये (वः-मदे वि वसुयवः-वि तिष्ठन्ते) तेरे हर्षप्रद स्वरूप में विशेष भावना से वास चाहनेवाले उपासक जन विराजते हैं। (विवक्षसे) क्योंकि तू महान् है ॥२॥
भावार्थभाषाः - सभी स्थानों में तुझे प्राप्त करने को, तेरे अन्दर वास के इच्छुक उपासकों की कामनाएँ बनी रहती हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शान्तस्वरूप परमात्मन् ! (विश्वेषु धामसु) समस्तेषु स्थानेषु सर्वत्रेत्यर्थः (ते) तुभ्यं त्वां प्राप्तुम् (हृदिस्पृशः) हृदयं स्पृशन्तः-हृदयगताः (इमे मम कामाः) एते ममाभिलाषाः (आसते) वर्त्तन्ते। (अध) अतः (वः-मदे वि वसुयवः-वितिष्ठन्ते) तव हर्षप्रदस्वरूपे विशिष्टभावेन वासमिच्छन्तो जना उपासका विराजन्ते (विवक्षसे) यतस्त्वं महानसि ॥२॥