वांछित मन्त्र चुनें

अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः । अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ viprāya dāśuṣe vājām̐ iyarti gomataḥ | ayaṁ saptabhya ā varaṁ vi vo made prāndhaṁ śroṇaṁ ca tāriṣad vivakṣase ||

पद पाठ

अ॒यम् । विप्रा॑य । दा॒शुषे॑ । वाजा॑न् । इ॒य॒र्ति॒ । गोऽम॑तः । अ॒यम् । स॒प्तऽभ्यः॑ । आ । वर॑म् । वि । वः॒ । मदे॑ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव॑क्षसे ॥ १०.२५.११

ऋग्वेद » मण्डल:10» सूक्त:25» मन्त्र:11 | अष्टक:7» अध्याय:7» वर्ग:12» मन्त्र:6 | मण्डल:10» अनुवाक:2» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयम्) शान्तस्वरूप परमात्मा (दाशुषे विप्राय) स्वात्म-समर्पण-कर्ता स्तुति करनेवाले के लिये (गोमतः-वाजान्-इयर्त्ति) स्तुतियोग्य अमृत-अन्न भोगों को प्रदान करता है (अयं सप्तभ्यः) यह प्रगतिशील उपासकों के लिये (वरम्-आ) वरणीय मोक्ष-पद को प्राप्त कराता है। (अन्धं श्रोणं च प्र तारिषत्) भलीभाँति ध्यान करने योग्य और श्रवण करने योग्य उस मोक्षानन्द को बढ़ाता है (वः-मदे वि) हर्षनिमित्त विशेषरूप से हम तेरी स्तुति करते हैं (विवक्षसे) तू महान् है ॥११॥
भावार्थभाषाः - स्वात्मसमर्पण-कर्ता उपासक के लिये परमात्मा प्रशंसनीय अमृत भोगों को प्रदान करता है। उन प्रगतिशील उपासकों के लिये श्रवण करने योग्य उत्कृष्ट वर मोक्षाननद को बढ़ाता है। उसकी स्तुति करनी चाहिये ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयम्) एष शान्तस्वरूपः परमात्मा (दाशुषे विप्राय) स्वात्मसमर्पणं कृतवते स्तोत्रे (गोमतः वाजान् इयर्ति) स्तुतियोग्यान्-अमृतान्नभोगान् “अमृतोऽन्नं वै वाजः” [जै० ३।१८३] प्रेरयति प्रयच्छति (अयं सप्तभ्यः) एष सृप्तेभ्यः प्रगतिशीलेभ्य उपासकेभ्यः (वरम् आ) वरणीयं मोक्षपदमावहति। (अन्धं श्रोणं च प्र तारिषत्) आध्यानीयं श्रोतव्यं च “श्रोणं श्रोतव्यम्” [ऋक्० १।१६१।१० दयानन्दः] तेभ्यः मोक्षानन्दं प्रवर्धयति (वः मदे वि) त्वां हर्षनिमित्तं विशिष्टतया स्तुमः (विवक्षसे) त्वं महानसि ॥११॥