वांछित मन्त्र चुनें

पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्पु॑ष्यन्तु॒ गोप॑तौ । इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥

अंग्रेज़ी लिप्यंतरण

punar etā ni vartantām asmin puṣyantu gopatau | ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ ||

पद पाठ

पुनः॑ । ए॒ताः । नि । व॒र्त॒न्ता॒म् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गोऽप॑तौ । इ॒ह । ए॒व । अ॒ग्ने॒ । नि । धा॒र॒य॒ । इ॒ह । ति॒ष्ठ॒तु॒ । या । र॒यिः ॥ १०.१९.३

ऋग्वेद » मण्डल:10» सूक्त:19» मन्त्र:3 | अष्टक:7» अध्याय:7» वर्ग:1» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एताः पुनः-निवर्तन्ताम्) ये गौवें प्रजाएँ और इन्द्रियवृत्तियाँ अपना-अपना उचित व्यापार करके लौट आवें (अस्मिन् गोपतौ पुष्यन्तु) इस गोस्वामी, प्रजापालक और इन्द्रियस्वामी आत्मा के आधार पर पुष्ट होवें (अग्ने) अग्रणायक परमात्मन् ! (इह-एव निधारय) यहाँ मेरे अधीन नियत करे (इह) मेरे अधीन (या रयिः-तिष्ठतु) जो पुष्टि, सम्पत्ति हो, वह स्थिर होवे ॥३॥
भावार्थभाषाः - गौ आदि पशु, प्रजाएँ तथा इन्द्रियाँ पुनः-पुनः व्यापार करके लौट आएँ और मुझ स्वामी के अधीन पुष्ट होवें। परमात्मा पुष्टि व सम्पत्ति को मेरे अधीन स्थिर रखे ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एताः पुनः-निवर्तन्ताम्) पूर्वोक्ताः गावः, प्रजाः, इन्द्रियशक्तयः स्वव्यापारं विधाय पुनः प्रत्यागच्छन्तु (अस्मिन् गोपतौ पुष्यन्तु) अस्मिन् गोस्वामिनि, प्रजास्वामिनि, इन्द्रियस्वामिनि-आत्मनि मयि पुष्टीभवन्तु (अग्ने) अग्रणायक परमात्मन् ! (इह एव निधारय) अत्र मयि हि निरोधय (इह) अत्र मयि (या रयिः-तिष्ठतु) या पुष्टिः पोषणसम्पत्तिः सा स्थिरीभवतु ॥३॥