वांछित मन्त्र चुनें

ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजु॑: ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥

अंग्रेज़ी लिप्यंतरण

te vindan manasā dīdhyānā yajuḥ ṣkannam prathamaṁ devayānam | dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete ||

पद पाठ

ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥ १०.१८१.३

ऋग्वेद » मण्डल:10» सूक्त:181» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:39» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) वे पूर्वोक्त अग्नि आदि ऋषि (मनसा) बुद्धि से (दीध्यानाः) प्रकाशमान (अविन्दन्) प्राप्त करते हैं (यजुः स्कन्नम्) यजुर्वेद से साधित (प्रथमं देवयानम्) जीवन्मुक्तों के गमनयोग्य अध्यात्मयज्ञ को प्राप्त करते हैं (धातुः-द्युतानात् सवितुः-विष्णोः) इन अग्नि, वायु, सूर्य, अङ्गिरा से ब्रह्मा ने अध्ययन किया, (एते सूर्यात्) ये सूर्योदय से (घर्मम्-आभरन्) अध्यात्मयज्ञ को अपने अन्दर आभरित करते हैं ॥३॥
भावार्थभाषाः - अग्नि आदि ऋषि बुद्धि से प्रकाशमान थे, यजुर्वेद-परमात्मा से संगतिकरणपद्धति से अध्यात्मयज्ञ किया, सूर्योदय के समय वेदज्ञान को प्राप्त किया ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते मनसा दीध्यानाः-अविन्दन्) ते पूर्वोक्ता ऋषयो मनसा बुद्ध्या प्रकाशमानः लभन्ते (यजुः-स्कन्नं प्रथमं देवयानम्) यजुर्भिः साधितं प्रथमं देवा यस्मिन् यान्ति तमध्यात्मं यज्ञं लभन्ते-इत्यर्थः (धातुः द्युतानात्-सवितुः-विष्णोः) इत्येषां सकाशात् (एते सूर्यात्- घर्मम्-आभरन्) एते पूर्वोक्ता-ऋषयः सूर्योदयात् सूर्योदये सति यज्ञम् “घर्मः-यज्ञनाम” [निघ० ३।१७] समन्तात्-कुर्वन्ति ॥३॥