वांछित मन्त्र चुनें

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु । अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हन्त॒ं जन॑यो॒ योनि॒मग्रे॑ ॥

अंग्रेज़ी लिप्यंतरण

imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṁ viśantu | anaśravo namīvāḥ suratnā ā rohantu janayo yonim agre ||

पद पाठ

इ॒माः । नारीः॑ । अ॒वि॒ध॒वाः । सु॒ऽपत्नीः॑ । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । वि॒श॒न्तु॒ । अ॒न॒श्रवः॑ । अ॒न॒मी॒वाः । सु॒ऽरत्नाः॑ । आ । रो॒ह॒न्तु॒ । जन॑यः । योनि॑म् । अग्रे॑ ॥ १०.१८.७

ऋग्वेद » मण्डल:10» सूक्त:18» मन्त्र:7 | अष्टक:7» अध्याय:6» वर्ग:27» मन्त्र:2 | मण्डल:10» अनुवाक:2» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमाः-अविधवाः-सुपत्नीः-नारीः-आञ्जनेन सर्पिषा संविशन्तु) ये जीवित पतिवाली सुशील नारियाँ भली प्रकार नेत्रमुखप्रक्षालन के कारण जल का सेवन करें (अनश्रवः-अनमीवाः सुरत्नाः-जनयः अग्रे योनिम्-आरोहन्तु) आँसू रहित हुई स्वस्थ युवतियाँ पूर्व से ही घर में आ विराजें ॥७॥
भावार्थभाषाः - शव के साथ जानेवाली स्त्रियाँ जो पतिवाली और युवति हों, वे किसी जलाशय तक पहुँचकर वहाँ नेत्र मुख आदि धोकर पुनः आँसू रहित स्वस्थ हुई घर को वापिस चली आवें ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमाः-अविधवाः-सुपत्नीः-नारीः-आञ्जनेन सर्पिषा संविशन्तु) इमाः सपतिकाः सुपत्न्यो नार्यः, ‘अत्र सर्वत्र विभक्तिव्यत्ययः’। समन्तादञ्जनेन नेत्रमुखप्रक्षालनहेतुना सर्पिषा ‘सर्पिरुदकं’ सङ्गृह्णन्तु। “सर्पिरुदकनाम” [नि०१।१२] ‘विभक्तिव्यत्ययः’ (अनश्रवः-अनमीवाः सुरत्नाः-जनयः-अग्रे योनिं-आरोहन्तु) अश्रुरहिताः-रोगरहिताः-स्वस्थाः सुरमणा जनयः-युवतयः पूर्वत एव योनिम्-गृहं, आरोहन्तु-अधितिष्ठन्तु ॥७॥