त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
tyam ū ṣu vājinaṁ devajūtaṁ sahāvānaṁ tarutāraṁ rathānām | ariṣṭanemim pṛtanājam āśuṁ svastaye tārkṣyam ihā huvema ||
त्यम् । ऊँ॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । स॒हऽवा॑नम् । त॒रु॒ऽतार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒नाज॑म् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । हु॒वे॒म॒ ॥ १०.१७८.१
ब्रह्ममुनि
इस सूक्त में आकाश में विद्युन्मयवायु मेघों को पृथिवी पर वर्षाता है, विद्युन्मय वायु को आश्रित कर वायुयान उड़ते हैं, वह होम यथाविधि करना चाहिये, इत्यादि विषय वर्णित हैं।
ब्रह्ममुनि
अत्र सूक्ते आकाशे विद्युन्मयो वायुर्वर्तते स मेघान् नीचै वर्षति तथा विद्युन्मयं वायुमाश्रित्य वायुयानानि खलूड्डीयन्ते स होमो सुसंस्कृतः कार्य इत्यादयो विषयाः सन्ति।