प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ॥
pataṁgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ | samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ ||
प॒त॒ङ्गम् । अ॒क्तम् । असु॑रस्य । मा॒यया॑ । हृ॒दा । प॒श्य॒न्ति॒ । मन॑सा । वि॒पः॒ऽचितः॑ । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । वि । च॒क्ष॒ते॒ । मरी॑चीनाम् प॒दम् इ॑च्छन्ति वे॒धसः॑ ॥ १०.१७७.१
ब्रह्ममुनि
इस सूक्त में जीवात्मा का नित्य होना, पुनः-पुनः शरीर से अन्य शरीर को प्राप्त करना जब तक मोक्ष हो, वाणी को प्रकट करना, मनोयोग से विद्वानों द्वारा धारण करना ज्ञानप्रसारार्थ इत्यादि विषय हैं।
ब्रह्ममुनि
अत्र सूक्ते जीवात्मनो नित्यत्वं पुनः पुनः-शरीराच्छरीरान्तरं गमनं यावन्मोक्षः, वाणीं च प्रकटयति मनोयोगेन तां च विद्वांसो धारयन्ति ज्ञानप्रसारायेत्येवमादयो विषयाः सन्ति।