वांछित मन्त्र चुनें

आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॑: पुनन्तु । विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ॥

अंग्रेज़ी लिप्यंतरण

āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu | viśvaṁ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi ||

पद पाठ

आपः । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ । विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥ १०.१७.१०

ऋग्वेद » मण्डल:10» सूक्त:17» मन्त्र:10 | अष्टक:7» अध्याय:6» वर्ग:24» मन्त्र:5 | मण्डल:10» अनुवाक:2» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मातरः-आपः-अस्मान् शुन्धयन्तु) माता के समान स्नेह शान्तिप्रद, जीवनकला निमार्ण करनेवाले जन या आप्त विद्वान् हमें पवित्र करते हैं (घृतप्वः-घृतेन नः पुनन्तु) घृत से सींचते हुए जैसे पवित्र करते हुए जल अथवा तेज से पवित्र करनेवाले आप्त विद्वान् हमें पवित्र करें (विश्वं रिप्रं देवीः प्रवहन्ति) सारे मल दोष को दिव्यगुणवाले जल तथा आप्त विद्वान् पाप को दूर बहाते हैं-दूर करते हैं (इत्) अनन्तर (आभ्यः-“आपूतः शुचिः-उत्-एमि) इनके साथ भलीभाँति सङ्गत होकर पवित्र निर्मल या निष्पाप होता हुआ उन्नत हूँ ॥१०॥
भावार्थभाषाः - जल अपने स्नेह से तथा आप्त विद्वान् अपने तेज-ज्ञान से हमें पवित्र किया करते हैं। उनसे यथोचित लाभ लेकर मानव निर्मल व निष्पाप हो जाते हैं और उन्नति के पथ को प्राप्त करते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मातरः-आपः-अस्मान् शुन्धयन्तु) मातृवत् स्नेहशान्तिप्रदाः, जीवनकलानिर्मात्र्यः-आपः-आप्तविद्वांसो वा “मनुष्या वा आपश्चन्द्राः” [श०७।३।१।२७] “आपः-आप्ताः” [यजु०६।२७ दयानन्दः] अस्मान् शोधयन्तु-पवित्रीकुर्वन्तीति भावः “शुन्ध शौचकर्मणि” [चुरादिः] (घृतप्वः-घृतेन नः पुनन्तु) सेचनेन पवित्रीकुर्वत्य आपः, यद्वा तेजसा पवित्रीकुर्वन्त आप्तविद्वांसः “तेजौ वै घृतम्” [मै०१।६।८] सेचनधर्मेण “घृ सेचने” [भ्वादिः] “नपुंसके भावे क्तः” [अष्टा०३।३।११४] तेजसा वाप्तजनाः पवित्रीकुर्वन्त्वस्मान् (विश्वं हि रिप्रं देवीः प्रवहन्ति) सर्वं ह्यमेध्यं मलं “तद्यदमेध्यं रिप्रं तत्” [श०३।१।२।११] दिव्यगुणा आपो दूरीकुर्वन्ति, उपदेशेन सर्वपापान् पृथक् कुर्वन्त्याप्ता दिव्यगुणाः “रिप्रं पापनाम” [निरु०४।२१] (इत्) अनन्तरम् (आभ्यः “आभिः” आपूतः शुचिः-उत्-एमि) एतैः सह सङ्गत्य समन्तात् प्रगतिप्राप्तः पवित्रो निर्मलो निष्पापो वा सन्नुत्सहे-उच्चत्वं प्राप्नोमि वा ॥१०॥