वांछित मन्त्र चुनें

शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ । अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्न॒: परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥

अंग्रेज़ी लिप्यंतरण

śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu | agnir hi vipro juṣatāṁ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu ||

पद पाठ

शि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ । अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥ १०.१६५.२

ऋग्वेद » मण्डल:10» सूक्त:165» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:23» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे विजय के इच्छुक विद्वानों ! (इषितः) भेजा हुआ (शिवः) कल्याणकर (कपोतः) वेश भाषा में विचित्र संदेशवाहक (नः-गृहेषु) हमारे गृहदि घरों में-प्रजाजनों में उनके निमित्त (अनागाः) पापरहित (शकुनः) सुभाषण में शक्त-शक्तिमान् (अग्निः) अग्रणी (विप्रः) मेधावी विद्वान् (हविः-जुषताम्) सत्कार भोजन आदि को सेवन करे (पक्षिणी हेतिः) परपक्षीया प्रहार करनेवाली सेना (नः परि वृणक्तु) हमें छोड़ दे ॥२॥
भावार्थभाषाः - आये हुए दूत का सत्कार भोजनादि से करना चाहिए, यह हमारे पास आता है। परपक्ष की प्रहारक सेना अपने प्रहार हमारे ऊपर न छोड़े ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) जिगीषवो विद्वांसः (इषितः शिवः कपोतः) प्रेषितः कल्याणकरः वेशभाषाभिर्विचित्रः सन्देशवाहकः (नः-गृहेषु) अस्माकं गृहवासिषु प्रजाजनेषु तन्निमित्तमित्यर्थः (अनागाः-शकुनः-अस्तु) पापरहितः सुभाषणे शक्तो भवतु “शकुनः शक्तिमान्” [यजु० १८।५३ दयानन्दः] (अग्निः विप्रः) अग्रणी मेधावी विद्वान् (हविः-जुषताम्) सत्कारं भोजनादिकं सेवताम् (पक्षिणी हेतिः) परपक्षीया प्रहारकर्त्री सेना (नः-परिवृणक्तु) अस्मान् परित्यजतु-संग्रामं न करोतु ॥२॥