वांछित मन्त्र चुनें

यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् । तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥

अंग्रेज़ी लिप्यंतरण

yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṁ jātavedasam | taṁ harāmi pitṛyajñāya devaṁ sa gharmam invāt parame sadhasthe ||

पद पाठ

यः । अ॒ग्निः । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । वः॒ । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् । तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽयज्ञाय॑ । दे॒वम् । सः । घ॒र्मम् । इ॒न्वा॒त् । प॒र॒मे । स॒धऽस्थे॑ ॥ १०.१६.१०

ऋग्वेद » मण्डल:10» सूक्त:16» मन्त्र:10 | अष्टक:7» अध्याय:6» वर्ग:21» मन्त्र:5 | मण्डल:10» अनुवाक:1» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः क्रव्यात्-अग्निः-वः-गृहं प्रविवेश) हे प्रेतहारो ! जो शवदहनाग्नि तुम्हारे शरीर में प्रविष्ट हुई है, (इमम्-इतरं जातवेदसं पश्यन्) मैं इस दूसरी अग्नि को प्रयुक्त करता हुआ-होमाहुति द्वारा सम्पादन करता हुआ (तं देवं हरामि पितृयज्ञाय) उस क्रव्याद् शवगन्धाग्नि को पृथक् करता हूँ, जिससे आपका प्राणसञ्चार सुखमय हो सके (सः-परमे सधस्थे घर्मम्-इन्वात्) वह शवगन्धाग्नि ऊपर आकाशसूर्य को लक्ष्य करके व्याप्त हो जावे ॥१०॥
भावार्थभाषाः - चिताग्नि में दी हुई होमाहुति प्रेतहारों के भीतर घुसी शवगन्धाग्नि के सम्पर्क को हटाती है, जिससे उनके जीवन प्राण में खराबी नहीं आती, किन्तु सूक्ष्म होकर ऊपर आकाश में शवगन्ध छिन्न-भिन्न हो जाती है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः क्रव्यात्-अग्निः-वः-गृहं प्रविवेश-इमम्-इतरं जातवेदसं पश्यन्) हे प्रेतहाराः ! यः शवाग्निर्युष्माकं शरीरं प्रविष्टवान्, अहमिममितरं हव्यवाहं जातवेदसं पश्यन् लक्ष्यीकुर्वन् प्रयुञ्जानः (तं देवं हरामि पितृयज्ञाय-सः-घर्मम्-इन्वात् परमे सधस्थे) तं देवमग्निं हरामि पृथक्करोमि पितृयज्ञाय-प्राणयज्ञाय युष्माकं प्राणपरिशोधनाय प्राणधारणायेत्यर्थः “प्राणो वै पिता” [ऐ०२।३८] स क्रव्यादग्निः परमे सधस्थे-उच्च-व्योम्नि घर्मं सूर्यं व्याप्नोतु “असौ वै घर्मो योऽसौ सूर्यः तपति [कौ०२।१] “इवि व्याप्तौ” [भ्वादिः] ततो लेट् ॥१०॥