वांछित मन्त्र चुनें

सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री । यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥

अंग्रेज़ी लिप्यंतरण

sam ajaiṣam imā ahaṁ sapatnīr abhibhūvarī | yathāham asya vīrasya virājāni janasya ca ||

पद पाठ

सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒ऽपत्नीः॑ । अ॒भि॒ऽभूव॑री । यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥ १०.१५९.६

ऋग्वेद » मण्डल:10» सूक्त:159» मन्त्र:6 | अष्टक:8» अध्याय:8» वर्ग:17» मन्त्र:6 | मण्डल:10» अनुवाक:12» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं सपत्नीः-अभिभूवरी) मैं विरोधिनी स्त्रियों को अभिभूत करनेवाली हूँ (इमाः सम् अजैषम्) इनको विजित करूँगी (अस्य वीरस्य जनस्य च) इस वीर पति के और इसके पारिवारिक जन के मध्य में (यथा अहं विराजानि) जिस प्रकार मैं विशेष राजमान रहूँ ॥६॥
भावार्थभाषाः - अपने पति और पति के परिवारिक जन मात्र के अन्दर ऐसे अपने गुण कर्म से विराजमान रहूँ, कोई विरोधी स्त्री न बन सके ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं सपत्नीः-अभिभूवरी) अहं शत्रुभूता अन्या देवीरभि-भवित्री खल्वस्मि (इमाः समजैषम्) इमा जेष्यामि (अस्य वीरस्य जनस्य च) अस्य वीरस्य पत्युर्जनस्य पारिवारिकजनस्य च मध्ये यथाहं (विराजानि) यथा प्रकारेणाहं विराजमाना भवेयम् ॥६॥