वांछित मन्त्र चुनें

च॒त्तो इ॒तश्च॒त्तामुत॒: सर्वा॑ भ्रू॒णान्या॒रुषी॑ । अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥

अंग्रेज़ी लिप्यंतरण

catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī | arāyyam brahmaṇas pate tīkṣṇaśṛṇgodṛṣann ihi ||

पद पाठ

च॒त्तो इति॑ । इ॒तः । च॒त्ता । अ॒मुतः॑ । सर्वा॑ । भ्रू॒णानि॑ । आ॒रुषी॑ । अ॒रा॒य्य॑म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । तीक्ष्ण॑ऽशृङ्ग । उ॒त्ऽऋ॒षन् । इ॒हि॒ ॥ १०.१५५.२

ऋग्वेद » मण्डल:10» सूक्त:155» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:13» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इतः) यहाँ से (चत्ता-उ) हिंसित ही (अमुतः) उस दूर स्थान से (चत्ता) हिंसित हो-नष्ट हो (सर्वा भ्रूणानि) सारे ओषधिगर्भो-बीजों को (आरुषी) नष्ट करनेवाली तू है (ब्रह्मणस्पते) हे ब्रह्माण्ड के स्वामिन् परमात्मा या मेघाच्छन्न आकाश के ज्ञाता विद्वन् ! (तीक्ष्णशृङ्ग) तीक्ष्ण तेजवाले (अराय्यम्) न देनेवाली दुर्भिक्ष-विपत्ति को (उदृषन्) दूर फैंकता हुआ (इहि) प्राप्त हो ॥२॥
भावार्थभाषाः - दुर्भिक्षरूप आपत्ति पास से, दूर से अर्थात् सभी स्थनों से हटे-नष्ट होवे, मेघवर्षण की विद्या जाननेवाला मेघ वर्षा कर उसे दूर करे ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इतः-चत्ता-उ-अमुतः-चत्ता) अस्मात् स्थानान्नाशिता हि दूरस्थानादपि नाशिता भवतु ‘चते नाशने’ वैदिकधातुः “चातयति नाशनकर्मा” [निरु० ६।३०] (सर्वा भ्रूणानि-आरुषी) सर्वाणि जातानि-ओषधिगर्भाणि बीजानि यानि सन्ति तेषां समन्तात्-सर्वथा हिंसिकाऽसि “रुष हिंसायाम्” [भ्वादि०] (ब्रह्मणस्पते) हे ब्रह्माण्डस्य स्वामिन् परमात्मन् ! यद्वा ब्रह्मणो मेघाच्छन्नाकाशस्य ज्ञानस्य स्वामिन् विद्वन् ! त्वम् (तीक्ष्णशृङ्ग) तीक्ष्ण-तेजस्क ! “शृङ्गाणि ज्वलतो नामधेयम्” [निघ० १।१७] (अराय्यम्-उदृषन्-इहि) तामदात्रीं दूरमुद्गमयन् प्राप्नुहि ॥२॥