वांछित मन्त्र चुनें

आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य । पु॒त्रेभ्य॑: पितर॒स्तस्य॒ वस्व॒: प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥

अंग्रेज़ी लिप्यंतरण

āsīnāso aruṇīnām upasthe rayiṁ dhatta dāśuṣe martyāya | putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṁ dadhāta ||

पद पाठ

आसी॑नासः । अ॒रु॒णीना॑म् । उ॒पऽस्थे॑ । र॒यिम् । ध॒त्त॒ । दा॒शुषे॑ । मर्त्या॑य । पु॒त्रेभ्यः॑ । पि॒त॒रः॒ । तस्य॑ । वस्वः॑ । प्र । य॒च्छ॒त॒ । ते । इ॒ह । ऊर्ज॑म् । द॒धा॒त॒ ॥ १०.१५.७

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:7 | अष्टक:7» अध्याय:6» वर्ग:18» मन्त्र:2 | मण्डल:10» अनुवाक:1» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अरुणीनाम्-उपस्थे-आसीनासः पितरः-दाशुषे मर्त्याय रयिं धत्त) उषा सम्बन्धी प्रकाशधाराओं के उपरिभाग पर संस्थित सूर्यरश्मियाँ यजमान मनुष्य के लिये बल को धारण कराती हैं (तस्य पुत्रेभ्यः-वस्वः प्रयच्छत) और उसके पुत्रों के लिये भी शुद्ध प्राणों का दान करती हैं (ते-इह-उर्जं दधात) वे सूर्यरश्मियाँ इस प्रकार दोनों यजमान और उसकी सन्तति में जीवनरस को धारण कराती हैं ॥७॥
भावार्थभाषाः - यज्ञ सेवन करनेवाले मनुष्य तथा उनकी सन्तति में जीवनरस बल और प्राणशक्तियों का सूर्य की रश्मियाँ वास कराती हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अरुणीनाम्-उपस्थे-आसीनासः पितरः-दाशुषे मर्त्याय रयिं धत्त तस्य पुत्रेभ्यः-वस्वः प्रयच्छत ते-इह-ऊर्जम् दधात) “अरुण्यो गाव उषसाम्” [निघं०२।२८] इति प्रामाण्यात्। अरुणीनामुषोऽन्तर्गत-प्रकाशधाराणामुपस्थ उपस्थाने-उपरिभागे संलग्नाः संस्थिताः सूर्यरश्मयो यजमानाय मनुष्याय रयिम्-वीर्यं बलमित्यर्थः “वीर्यं वै रयिः” [श०१३।४।२।१३] धत्त धारयन्तु। पुरुषव्यत्ययः। तस्य सन्तानेभ्यः प्राणान् प्रयच्छत-प्रयच्छन्तु ददतु। “प्राणा वाव वसवः” [छान्दो०३।१६।१] पूर्वोक्तास्त उषःकालसम्बद्धाः सूर्यरश्मय इहोभयत्र यजमाने तत्पुत्रेषु चोर्जं रसं दधात धारयन्तु “ऊर्ग्रसः” [निरु०९।४३] “ऊर्ग्वै रसः” [श०५।१।२।८] अन्यत्रापि वेदेऽरुणी-शब्दस्योषःशब्देन सह सम्बन्धस्तथा पितरः सूर्यरश्मय इति विज्ञानं प्रतीयते “आवहन्त्यरुणी ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना। प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन” [ऋ०४।१४।३] “अधा यथा नः पितरः परासोऽग्न ऋतमासुषाणाः। शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरपव्रन्” [ऋ०४।२।१६] ॥७॥