वांछित मन्त्र चुनें

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते । तेभि॑: स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥

अंग्रेज़ी लिप्यंतरण

ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante | tebhiḥ svarāḻ asunītim etāṁ yathāvaśaṁ tanvaṁ kalpayasva ||

पद पाठ

ये । अ॒ग्नि॒ऽद॒ग्धाः । ये । अन॑ग्निऽदग्धाः । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दय॑न्ते । तेभिः॑ । स्व॒ऽराट् । असु॑ऽनीतिम् । ए॒ताम् । य॒था॒ऽव॒शम् । त॒न्व॑म् । क॒ल्प॒य॒स्व॒ ॥ १०.१५.१४

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:14 | अष्टक:7» अध्याय:6» वर्ग:19» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये-अग्निदग्धाः-ये अनग्निदग्धाः-दिवः मध्ये स्वधया मादयन्ते) अग्नितेज या ताप जिन किरणों से बढ़ जाता है, वे ग्रीष्मकाल अर्थात् उत्तरायण के अन्त की तथा उनसे विपरीत शीतकाल अर्थात् दक्षिणायन के अन्त की सूर्यरश्मियाँ, जो आकाश के मध्य में विचरती हुई जलवृष्टि से प्राणियों को जीवन देती हैं (स्वराट् तेभिः-एताम्-असुनीतिं तन्वं यथावशं कल्पयस्व) हे यज्ञ में प्रकाशमानाग्ने ! उन किरणों के द्वारा प्राणसञ्चार के स्थान जीवशरीर को यथायोग्य समर्थ बना ॥१४॥
भावार्थभाषाः - उत्तरायण और दक्षिणायन के अन्त में होनेवाली वर्षा की कारणभूत सूर्यकिरणों को आकाश से सुवृष्टि के लिये यज्ञाग्नि प्रेरित करती है, जिस से जीवशरीर यथायोग्य प्राणशक्ति को धारण कर सकता है ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये अग्निदग्धाः-ये-अनग्निदग्धाः-दिवः-मध्ये स्वधया मादयन्ते) ये अग्निदग्धाः अग्निर्दग्धो दीपितो यैस्ते ग्रैष्मा उत्तरायणान्ते भवाः सूर्यरश्मयः, “जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमित-प्रतिपन्नाः” [अष्टा०६।२।१७०] इति सूत्रेण बहुव्रीहावन्तोदात्तः, दह धातुर्दीप्तौ “दहिक् दीप्तौ” [कविकल्पद्रुमः] येऽनग्निदग्धास्तद्विपरीता हैमन्तिका दक्षिणायनान्ते भवाः सूर्यरश्मयस्ते सर्वे दिवोऽन्तरिक्षस्य मध्ये स्वधयोदकेनोदकवृष्ट्या मादयन्ते प्राणिनो जीवयन्ति (स्वराट् तेभिः-एताम्-असुनीतिं तन्वं यथावशं कल्पयस्व) स्वराट्-हे प्रकाशमानाग्ने ! तेभिः सूर्यरश्मिभिरेतां तन्वमेतं जीवशरीरमसुनीतिं प्राणसञ्चारस्थानं यथावश्यकं यथायोग्यं समर्थयस्व ॥१४॥