वांछित मन्त्र चुनें

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑:सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥

अंग्रेज़ी लिप्यंतरण

agniṣvāttāḥ pitara eha gacchata sadaḥ-sadaḥ sadata supraṇītayaḥ | attā havīṁṣi prayatāni barhiṣy athā rayiṁ sarvavīraṁ dadhātana ||

पद पाठ

अग्नि॑ऽस्वात्ताः । पि॒त॒रः॒ । आ । इ॒ह । ग॒च्छ॒त॒ । सदः॑ऽसदः । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒यः॒ । अ॒त्त । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । अथ॑ । र॒यिम् । सर्व॑ऽवीरम् । द॒धा॒त॒न॒ ॥ १०.१५.११

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:11 | अष्टक:7» अध्याय:6» वर्ग:19» मन्त्र:1 | मण्डल:10» अनुवाक:1» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निष्वात्ताः पितरः-इह आगच्छत सुप्रणीतयः सदःसदः सदत) यज्ञाग्नि को सम्यक् ग्रहण की हुई किरणें इस मण्डल में समन्तरूप से फैलें एवं सुसंचरित होकर घर-घर या स्थान-स्थान में भली प्रकार प्राप्त हों (बहिर्षि प्रयतानि हवींषि-आत्त-अध रयिं सर्ववीरं दधातन) यज्ञ में दी गई हव्यवस्तुओं को प्राप्त हों, पुनः सर्वप्रकार के वीरगुणयुक्त बल को हम में धारण करावें ॥११॥
भावार्थभाषाः - सूर्य की रश्मियाँ यज्ञ के संपर्क से सुगन्धगुणयुक्त होकर यज्ञमण्डल के घर-घर में प्रवेश करती हैं और लाभप्रद होती हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निष्वात्ताः पितरः इह-आगच्छत सुप्रणीतयः सदःसदः सदत) अग्निर्यज्ञः स्वात्तः सम्यग् गृहीतो यैस्ते पितरः-सूर्यरश्मयः “अग्निष्वात्ता ऋतुभिः संविदानाः” [तै०२।६।१६।२] “आयातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः” [अथर्व०३।८।१] इहास्मद् गृहे समन्तात्प्राप्ता भवन्तु, ‘पुरुषव्यत्ययः’ तथा सुप्रणीतयः सु सम्यक् प्रणीतिः प्रणयनं घृतादिसम्पर्कः सञ्चारो येषां ते सदःसदः प्रतिसदं-प्रतिगृहं सदत गच्छन्तु (बर्हिषि प्रयतानि हवींषि-आ+अत्त अध रयिं सर्ववीरं दधातन) यज्ञे प्रदत्तानि हव्यानि वस्तूनि गृह्णन्तु, अध-अनन्तरं सर्ववीरम्-सर्वे वीरा यस्मात्तत्सर्ववीरं वीर्यं बलमस्मासु धारयन्तु ॥११॥