वांछित मन्त्र चुनें

न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥

अंग्रेज़ी लिप्यंतरण

na vā araṇyānir hanty anyaś cen nābhigacchati | svādoḥ phalasya jagdhvāya yathākāmaṁ ni padyate ||

पद पाठ

न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति । स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥ १०.१४६.५

ऋग्वेद » मण्डल:10» सूक्त:146» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:4» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अरण्यानिः) अरण्यानी (न वै-हन्ति) किसी को नहीं मारती है (अन्यः-चेत्) अन्य यदि (न-अभिगच्छति) नहीं आक्रमण करे (स्वादु फलं जग्ध्वाय) स्वादु फल को खाकर (यथाकामं नि पद्यते) यथेष्ट अपने घर को चला जाता है ॥५॥
भावार्थभाषाः - अरण्यानी किसी को मारती नहीं है अर्थात् उसमें रहनेवाले जंगली पशु किसी को नहीं मारते हैं, यदि कोई उन पर आक्रमण नहीं करे। अरण्यानी में वन्य फल भी खाने को मिलते हैं ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अरण्यानिः-न वै हन्ति) अरण्यानी न च कमपि हन्ति (अन्यः-चेत्-न अभिगच्छति) यदि कश्चिदन्यो नाक्रामेत् (स्वादुफलं जग्ध्वाय) स्वादु फलं भुक्त्वा (यथा कामं नि पद्यते) यथेष्टं स्वगृहं नियतं प्राप्नोति ॥५॥