अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् । भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥
ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam | bhadraṁ hi śarma trivarūtham asti ta āre hiṁsānām apa didyum ā kṛdhi ||
अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् । भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥ १०.१४२.१
ब्रह्ममुनि
इस सूक्त में परमात्मा अपने उपासक के अज्ञान को नष्ट करता है, मोक्षसुख देता है, तीन प्रकार के दुःखों से पृथक् करता है, उसकी सदा रक्षा करता है इत्यादि विषय हैं।
ब्रह्ममुनि
अत्र सूक्ते परमात्मा निजोपासकस्याज्ञानं छिनत्ति मोक्षसुखं प्रयच्छति, दुःखत्रयात् पृथक् करोति सदा रक्षतीत्यादयो विषयाः सन्ति।