पदार्थान्वयभाषाः - (अङ्गिरसः पितरः नवग्वाः-अथर्वाणः-भृगवः सोम्यास-नः) अङ्गिरसः-ग्रीष्मर्तुसम्बन्धिसूर्यरश्मयः, पितरः वर्षर्तुसम्बन्धिरविकिरणाः, नवग्वः- शरदृतुसम्बन्धिभानुरश्मयः, अथर्वाणः-हेमन्तर्तुसम्बन्धिरवि-किरणाः, भृगवः शिशिरर्तुसम्बन्धिसूर्यरश्मयः, सोम्यासः-वसन्तर्तु- सम्बन्धिसूर्यकिरणाः, नः-अस्मभ्यं जीवनाय सन्ति। पूर्वस्मिन्मन्त्रे ‘विवस्वन्तं हुवे’ इति वचनात् तेन विवस्वता साकमृतवस्तत्सहिताः सूर्यरश्मयश्चापि युज्यन्त इति दर्शयितुमङ्गिरःप्रभृतीनां वचनम्। अन्यत्रापि-“आयातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः” [अथ०३।८।१] सूर्यः, ऋतुभिरुस्रियाभिश्च सह आयातीति सिद्धान्तः। अत्र तु ते रश्मय ऋतुसहचरिता वर्णिताः सन्ति। एवंवच्च विज्ञानम्। “वीळु चिद् दृढा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण। चक्रुर्दिवो बृहती गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः” [ऋ०१।१।२] अन्नापि दर्शितं यदङ्गिरसो ग्रीष्मर्तुसम्बन्धिनः सूर्यरश्मयोऽद्रिं मेघं चक्रुः कृतवन्तस्तमेवाद्रिं मेघं पितरो वर्षर्तुसम्बन्धिरविकिरणा रुजन् भङ्गयन्ति नीचैर्निपातयन्ति पुनश्चोस्रा विविधगुणवासयितारः शारदाः सूर्यकिरणा आदित्यं दिनं पृथिवीं प्राप्नुवन्ति, एवमृतुसाम्यं दर्शितम्। ऋतुत्रयत्वमपि भवति यथा चरके-“विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति, ऋतवस्त्रय इव” [चरके १२।१३] तथा कृत्वैवात्र पितर इति शब्दो न विशेषणरूपेणापित्वङ्गिरआदिवद्देवतारूपेण स्वतन्त्र एव। सायणेन ‘पितरो नवग्वाः सोम्यासः’ त्रयोऽप्यङ्गिरआदीनां विशेषणवाचकाः सन्तीति व्याख्यातं परन्तु सूक्तभाष्यावतरणे “अङ्गिरसो नः पितरो नवग्वा इति षष्ठ्या अङ्गिरःपित्रथर्वभृगुलक्षणा लिङ्गोक्ता देवताः” एवमत्र तु सायणेन ‘पितरः’ इति शब्दस्य देवतात्वं प्रतिपादितम्। अस्तु, निरुक्तेऽप्यस्मद्वत् पितर इत्यस्य स्वतन्त्रं देवतात्वमेव प्रतिपादितमङ्गिरआदीनामर्थाश्च यथा−“पिता पाता वा पालयिता वा……पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः” [निरु०४।२१] इति लक्ष्यीकृत्योक्तमत्र “पितरो व्याख्याताः। अङ्गारेष्वङ्गिराः अर्चिषि भृगुः संबभूव” इति कृत्वैवोक्तं यास्केन। “अङ्गिरसो व्याख्याताः, भृगवो व्याख्याताः, अथर्वाणोऽथर्वन्तः, थर्वतिश्चरतिकर्मा तत्प्रतिषेधः। तेषामेषा साधारणा भवति-‘अङ्गिरसो नः पितरो………।’ अङ्गिरसो नः पितरो नवगतयो नवनीतगतयो वाथर्वाणो भृगवः सोम्याः सोमसम्पादिनः” [निरु०११।१९] “रसः सोमः” [श०७।३।१।३] सोम्यासः सोमसम्पादिनो रससम्पादिनो वसन्तर्तुसम्बन्धिसूर्यरश्मय इत्यर्थः। एवं नात्राङ्गिरआदयो मृतपितरोऽपि तु सन्ति देवा ऋतुयुक्तसूर्यरश्मयः। उक्तं च निरुक्ते ‘पितर’ इत्याख्यानम्। “माध्यमिको देवगण इति नैरुक्ताः” [निरु०११।९९] रश्मयो देवाः-“उदिता देवाः सूर्यस्य” (तेषां यज्ञियानां सुमतौ भद्रे-अपि सौमनसे वयं स्याम ) “तेषां यज्ञियानां सुमतौ कल्याण्यां मतौ भद्रे भन्दनीये भाजनवति वा कल्याणे मनसि स्याम” [निरु०११।१९] तेषां पूर्वोक्तानां यज्ञार्हाणां सुमन्तव्ये व्यवहारे भाजनवति कल्याणे मनसि सुखयुक्ते प्रसन्नभावे वर्तेमहि ॥६॥