वांछित मन्त्र चुनें
देवता: यमः ऋषि: यमः छन्द: विराट्त्रिष्टुप् स्वर: धैवतः

इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑: संविदा॒नः । आ त्वा॒ मन्त्रा॑: कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥

अंग्रेज़ी लिप्यंतरण

imaṁ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṁvidānaḥ | ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva ||

पद पाठ

इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । सीद॑ । अङ्गि॑रःऽभिः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । आ । त्वा॒ । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा॑ । मा॒द॒य॒स्व॒ ॥ १०.१४.४

ऋग्वेद » मण्डल:10» सूक्त:14» मन्त्र:4 | अष्टक:7» अध्याय:6» वर्ग:14» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यम-अङ्गिरोभिः पितृभिः संविदानः इमं प्रस्तरं हि-आसीद) हे जीवनकाल ! तू प्राणों के साथ अनुकूल होता हुआ मेरे इस शरीररूपी यज्ञ को जीवनवृद्धि के हेतु अवश्य भली प्रकार प्राप्त हो (कविशस्ताः मन्त्राः त्वा आवहन्तु) शरीर-विद्यावेत्ता विद्वानों के निर्दिष्ट मन्तव्य तुझ को मेरे शरीर में चिरकाल तक रखें, अत एव (राजन्-एना-हविषा मादयस्व) हे राजमान देव ! इस हविर्दान तथा खाने योग्य पदार्थ से मुझ को सन्तुष्ट, सजीवन कर ॥४॥
भावार्थभाषाः - प्राणशक्ति के अभ्यास और वैद्यक सिद्धान्तों के अनुसार खानपान हवनादि क्रियाओं से मनुष्य दीर्घजीवी और सुखी हो सकता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यम-अङ्गिरोभिः-पितृभिः-संविदानः-इमं प्रस्तरं हि-आसीद) यम-हे जीवनकाल ! अङ्गानां रसैः प्राणैः सहानुकूलः संस्त्वमिमं प्रस्तरम्-शरीररूपं यज्ञं जीवनवृद्धिहेतोरवश्यमासीद्-समन्तात्प्राप्तो भव “यज्ञो वै प्रस्तरः” [श०१।३।४।१०] ‘पुरुषो वाव यज्ञः” [छन्दो०३।६।१] “पुरुषो वै यज्ञस्तस्य शिर एव हविर्धानं मुखमाहवनीयः” [गो०५।४] (कविशस्ताः-मन्त्राः-त्वा आवहन्तु) विद्वत्प्रोक्तानि शरीरविद्या-वित्प्रोक्तानि मन्तव्यानि त्वामावहन्तु-अत्र शरीरे समन्तात् प्रापयन्तु चिरं रक्षन्त्वित्यर्थः, अत एव (राजन्-एना हविषा-मादयस्व) राजन्-हे राजमान देव ! अनेन हविर्दानेनादानयोग्येन वस्तुना वा मां मादयस्व-युङ्क्ष्व-संतोषय सजीवनं कुर्वित्यर्थः ॥४॥