वांछित मन्त्र चुनें
देवता: श्वानौ ऋषि: यमः छन्द: त्रिष्टुप् स्वर: धैवतः

अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ उपे॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥

अंग्रेज़ी लिप्यंतरण

ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā | athā pitṝn suvidatrām̐ upehi yamena ye sadhamādam madanti ||

पद पाठ

अति॑ । द्र॒व॒ । सा॒र॒मे॒यौ । श्वानौ॑ । च॒तुः॒ऽअ॒क्षौ । श॒बलौ॑ । सा॒धुना॑ । प॒था । अथ॑ । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । उप॑ । इ॒हि॒ । य॒मेन॑ । ये । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥ १०.१४.१०

ऋग्वेद » मण्डल:10» सूक्त:14» मन्त्र:10 | अष्टक:7» अध्याय:6» वर्ग:15» मन्त्र:5 | मण्डल:10» अनुवाक:1» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (साधुना पथा चतुरक्षौ शबलौ सारमेयौ श्वानौ अतिद्रव) हे जीव ! तू उचित मार्ग से चार प्रहररूप चार आँखोंवाले, सूर्य तथा चन्द्रप्रकाश से चित्र रङ्गयुक्त उषा-पुत्रों-दिन और रात को समीचीनरूप से प्राप्त हो (अथ सुविदत्रान्) इसके पश्चात् कल्याणसम्पादक ऋतुसहचरित सूर्य की रश्मियों को प्राप्त कर जो समय के साथ सदा सहयोग रखती हैं ॥१०॥
भावार्थभाषाः - देहान्त के पश्चात् जीव शीघ्र-शीघ्र दिन रातों को सूर्यरश्मियों द्वारा पुनर्जन्मार्थ प्राप्त होता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (साधुना पथा चतुरक्षौ शबलौ सारमेयौ श्वानौ अतिद्रव) हे जीव ! त्वं धर्म्येण मार्गेण चतुष्प्रहरकौ चित्रवर्णौ सारमेयौ-सरमाया उषायाः पुत्रावहोरात्रौ, ‘सरमेति शब्दो मध्यस्थानदेवताप्रकरणे पदनामसु निघण्टौ पठितत्वान्निरुक्ते च सरमा सरणादिति व्याख्यातत्वाददितिशब्देनं साकं वर्णनाच्च सरमाशब्दस्यार्थ उषोऽत्र गृह्यते। सूर्यचन्द्रप्रकाशाभ्यां चित्रवर्णावहोरात्रौ शबलावत्रोच्येते। शबलावहोरात्रावित्यत्र प्रमाणम्-“श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ। अर्वाङेहि मा विदीध्यो मात्र तिष्ठः पराङ् मनाः” [अथ०८।१।९] प्रकृते दशममन्त्रे ‘श्वानौ’ एकादशे च ‘पथिरक्षी’ एवं द्वावपि शब्दौ पथिरक्षी श्वानौ, अथर्ववेदस्यैकस्मिन्नेव मन्त्रे पठितौ स्तः। तन्मन्त्रे च यत् कौषीतकिब्राह्मणवचनं तदत्र प्रमाणमुद्ध्रियते  “अहर्वै शबलो रात्रिः श्यामः” [कौ०२।९] इति प्रामाण्यादृङ्मन्त्रोक्तशबलौ पथिरक्षी श्वानावहोरात्राविति सिद्धम्। तावहोरात्रौ हे जीव ! त्वमतिद्रव सम्यक् प्राप्तो भव (अथ सुविदत्रान् पितॄन्-उपेहि ये यमेन सधमादं मदन्ति ) अथानन्तर हे जीव ! सुशोभनान् कल्याणसम्पादकान् पालकान्-ऋतुसह-चरितान् सूर्यरश्मीनुपेह्युपागच्छ, ये पितरो रश्मयो यमेन-कालेन सहयोगं भजन्ते ॥१०॥