वांछित मन्त्र चुनें

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आप॒: सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥

अंग्रेज़ी लिप्यंतरण

āpa id vā u bheṣajīr āpo amīvacātanīḥ | āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam ||

पद पाठ

आपः॑ । इत् । वा॒ । ऊँ॒ इति॑ । भे॒ष॒जीः । आपः । अ॒मी॒व॒ऽचात॑नीः । आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥ १०.१३७.६

ऋग्वेद » मण्डल:10» सूक्त:137» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:25» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (आपः) जल (इत्-वै-उ) ही निश्चय से (भेषजीः) स्नान पान के द्वारा स्वास्थ्यकर हैं (आपः) जल (अमीवचातनीः) रोगनाशक हैं (आपः सर्वस्य भेषजीः) जल सबकी भेषज हैं (ताः-ते भेषजं कृण्वन्तु) वे जल तेरे लिये स्वास्थ्य करें ॥६॥
भावार्थभाषाः - जल स्नान और पान के द्वारा सब रोगों के ओषध हैं, स्वास्थ्यकर रसायनरूप हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (आपः-इत् वै-उ-भेषजीः) जलानि स्नानपानाभ्यां स्वास्थ्यकराणि सन्तु (आपः-अमीवचातनीः) जलानि रोगनाशकानि “चातयतिर्नाशने” [निरु० ६।३०] (आपः सर्वस्य भेषजीः) जलानि सर्वस्य रोगस्य भेषजानि (ताः ते भेषजं कृण्वन्तु) तानि जलानि तुभ्यं भेषजं स्वास्थ्यं कुर्वन्तु ॥६॥