वांछित मन्त्र चुनें

वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनि॑: । उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥

अंग्रेज़ी लिप्यंतरण

vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ | ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ ||

पद पाठ

वात॑स्य । अश्वः॑ । वा॒योः । सखा॑ । अथो॒ इति॑ । दे॒वऽइ॑षितः । मुनिः॑ । उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः॑ । उ॒त । अप॑रः ॥ १०.१३६.५

ऋग्वेद » मण्डल:10» सूक्त:136» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:24» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वातस्य-अश्वः) वातसूत्र से गति करता हुआ (वायोः-सखा) विद्युत् के समान धर्मवाला प्रतापवान् (अथ-उ) और (देवेषितः-मुनिः) परमात्मदेव से प्रेरित मननीय सूर्य (उभौ समुद्रौ-आ क्षेति) दोनों अन्तरिक्षरूप आकाशों में भलीभाँति निवास करता है (यः पूर्वः-उत-अपरः-च) जो पूर्व दिशावाला और जो पश्चिम दिशावाला है ॥५॥
भावार्थभाषाः - सूर्य आकाश में वातसूत्र द्वारा गति करता है, विद्युत् के समान प्रतापवान् परमात्मा से प्रेरित हुआ पूर्व पश्चिम में वर्तमान होता है, उसे जानना उससे लाभ उठाना चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वातस्य-अश्वः) वातसूत्रेण गतिं कुर्वाणः (वायोः सखा) विद्युतः समानख्यानः “य इन्द्रः स वायुः” [श० ४।१।३।९] “यदशनिरिन्द्रः” [कौ० ६।९] “विद्युद्वा अशनिः” [श० ६।१।३।१४] (अथ-उ) अथ च (देवेषितः-मुनिः) परमात्मदेवेन प्रेरितो मननीयः सूर्यः (उभौ समुद्रौ-आ क्षेति) द्वौ खल्वन्तरिक्षरूपावाकाशौ समन्तान्निवसति (यः पूर्वः-उत-अपरः-च) यः पूर्वदिग्वर्ती यश्च पश्चिमदिग्वर्ती ॥५॥