वांछित मन्त्र चुनें

अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्च॑न्द्रा अमित्रहन् । शची॑भिः शक्र धूनु॒हीन्द्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

अंग्रेज़ी लिप्यंतरण

ava tyā bṛhatīr iṣo viśvaścandrā amitrahan | śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||

पद पाठ

अव॑ । त्याः । बृ॒ह॒तीः । इषः॑ । वि॒श्वऽच॑न्द्राः । अ॒मि॒त्र॒ऽह॒न् । शची॑भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥ १०.१३४.३

ऋग्वेद » मण्डल:10» सूक्त:134» मन्त्र:3 | अष्टक:8» अध्याय:7» वर्ग:22» मन्त्र:3 | मण्डल:10» अनुवाक:11» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अमित्रहन्-शक्र-इन्द्र) शत्रुनाशक शक्तिसम्पन्न राजन् ! (त्याः) वे (विश्वश्चन्द्राः) आह्लादक सुख जिनके अन्दर हैं, वे ऐसी (बृहतीः-इषः) अन्नादि सम्पत्तियों को (शचीभिः) शक्तिक्रियाओं से (विश्वाभिः-ऊतिभिः) सब रक्षणक्रियाओं से (अवधूनुहि) शत्रु से हमारे लिए छीन, (देवी०) पूर्ववत् ॥३॥
भावार्थभाषाः - शत्रुनाशक समर्थ राजा समस्त आह्लादकारी सुख देनेवाली सम्पत्तियों को शत्रु से छीनकर अपनी प्रजा को बाँट दे ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अमित्रहन् शक्र-इन्द्र) हे शत्रुहन्तः शक्त राजन् ! (त्याः-विश्वश्चन्द्राः-बृहतीः-इषः) ताः-विश्वानि चन्द्राणि-आह्लादकानि सुखानि यासु ताः-महतीः-अन्नादिसम्पत्तीः (शचीभिः) शक्तक्रियाभिः (विश्वाभिः-ऊतिभिः) सर्वाभी रक्षाभिः (अवधूनुहि) शत्रुभ्योऽव-कम्पयास्मदर्थं (देवी०) पूर्ववत् ॥३॥