वांछित मन्त्र चुनें

यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्य॑: । अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

अंग्रेज़ी लिप्यंतरण

yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ | ava tasya balaṁ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṁ jyākā adhi dhanvasu ||

पद पाठ

यः । नः॒ । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । सऽना॑भिः । यः । च॒ । निष्ट्यः॑ । अव॑ । तस्य॑ । बल॑म् । ति॒र॒ । म॒हीऽइ॑व । द्यौः । अध॑ । त्मना॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥ १०.१३३.५

ऋग्वेद » मण्डल:10» सूक्त:133» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:21» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (यः सनाभिः) जो समानवंशज (च) और (निष्ट्यः) वंश से निर्गत अन्य वंशवाला दस्यु (नः) हमें (अभिदासति) क्षीण करता है (तस्य बलम्) उसके बल को (अवतिर) नष्ट कर (मही द्यौः-इव) महा सूर्य की भाँति जैसे सूर्य अन्धकार को नष्ट करता है (अध त्मना) अपने आत्मबल से नष्ट कर (नभन्ताम्०) पूर्ववत् ॥५॥
भावार्थभाषाः - स्ववंश का या परवंश का कोई अत्याचारी दुष्ट प्रजा का विनाश करे, तो राजा उसे अपने प्रताप से नष्ट कर दे ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (यः सनाभिः) यः समानवंशजः (च) तथा (निष्ट्यः) वंशान्निर्गतोऽन्यवंशजो दस्युः (नः-अभिदासति) अस्मानभिक्षिणोति (तस्य बलम्-अव तिर) तस्य बलं नाशय (मही-इव द्यौः-अध त्मना) महती द्यौः-महान् सूर्यो यथा तमो नाशयति तद्वत् (नभन्ताम्०) पूर्ववत् ॥५॥