वांछित मन्त्र चुनें

यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति । अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

अंग्रेज़ी लिप्यंतरण

yo na indrābhito jano vṛkāyur ādideśati | adhaspadaṁ tam īṁ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṁ jyākā adhi dhanvasu ||

पद पाठ

यः । नः॒ । इ॒न्द्र॒ । अ॒भितः॑ । जनः॑ । वृ॒क॒ऽयुः । आ॒ऽदिदे॑शति । अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । वि॒ऽबा॒धः । अ॒सि॒ । स॒स॒हिः । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥ १०.१३३.४

ऋग्वेद » मण्डल:10» सूक्त:133» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:21» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (यः-जनः) जो मनुष्य (वृकायुः) भेड़िये के समान (नः) हम पर (अभितः) सामने होकर (आदिदेशति) शस्त्रप्रहार करता है (तम्-ईम्) उस शत्रु को (अधस्पदं कृधि) पैर के नीचे कुचल दे (विबाधः) तू विशेषरूप से बाधक-पीड़ित करनेवाला (सासहिः-असि) दबानेवाला है (नभन्ताम्०) पूर्ववत् ॥४॥
भावार्थभाषाः - जो जंगली पशु भेड़िये के समान शस्त्रों से आक्रमण करनेवाला शत्रु है, उसे पराक्रमी राजा कुचल डाले ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (यः-जनः-वृकायुः-नः-अभितः-आदिदेशति) यो मनुष्यो वनश्वेवास्मान्-अभिमुखः सन् शस्त्राणि प्रेरयति (तम्-ईम्-अधस्पदं कृधि) तं शत्रुं पादस्याधस्तात् कुरु ताडयेत्यर्थः (विबाधः सासहिः-असि) त्वं विशेषेण तस्य बाधकः पीडयिता तथाऽभिभविता चासि, (नभन्ताम्०) पूर्ववत् ॥४॥