वांछित मन्त्र चुनें

न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ । ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥

अंग्रेज़ी लिप्यंतरण

nahi sthūry ṛtuthā yātam asti nota śravo vivide saṁgameṣu | gavyanta indraṁ sakhyāya viprā aśvāyanto vṛṣaṇaṁ vājayantaḥ ||

पद पाठ

न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जऽय॑न्तः ॥ १०.१३१.३

ऋग्वेद » मण्डल:10» सूक्त:131» मन्त्र:3 | अष्टक:8» अध्याय:7» वर्ग:19» मन्त्र:3 | मण्डल:10» अनुवाक:11» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्थूरिः) स्थित-खड़ा यान-रथ बिना घोड़े के (ऋतुथा) समय पर (यातम्) यातव्य-जाने पहुँचने योग्य-चलने योग्य-चलने में समर्थ (नहि-अस्ति) नहीं होता है (न-उत) नापि-और न (सङ्गमेषु) सङ्ग्रामों में (श्रवः-विविदे) यश-विजय प्राप्त करता है (विप्राः) विद्वान् जन (गव्यन्तः) वेदवाणी-ज्ञान को चाहते हुए (अश्वयन्तः) व्यापन मन को चाहते हुए (वाजयन्तः) अमृतान्नभोग चाहते हुए (सख्याय) मित्रता करने के लिए (वृषणम् इन्द्रम्) सुखवर्षक परमात्मा या राजा की शरण लें ॥३॥
भावार्थभाषाः - घोड़े से रहित गाड़ी यात्रा नहीं करा सकती, न सङ्ग्राम जिता सकती है, ऐसे ही विद्वान् सुखवर्षक परमात्मा या राजा की शरण बिना वेदज्ञान मानस सुख अमृतान्न आदि नहीं प्राप्त कर सकते हैं ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्थूरिः-ऋतुथा न हि यातम्-अस्ति) स्थितं यानं खल्वश्वहीनं समयानुरूपं यातव्यं न हि समर्थं भवति (न-उत सङ्गमेषु श्रवः-विविदे) नापि सङ्ग्रामेषु यशो विजयं प्राप्नोति (विप्राः) विद्वांसः (गव्यन्तः) गां वाचं कामयमानाः (अश्वयन्तः) व्यापनशीलं मनो वाञ्छन्तः (वाजयन्तः) अमृतान्नभोगमिच्छन्तः (सख्याय) सखिभावाय (वृषणम्-इन्द्रम्) सुखवर्षकं परमात्मानं राजानं वा शरणं गच्छन्तु ॥३॥