वांछित मन्त्र चुनें

अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥

अंग्रेज़ी लिप्यंतरण

agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva | anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat ||

पद पाठ

अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ । अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥ १०.१३०.४

ऋग्वेद » मण्डल:10» सूक्त:130» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:18» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - देवता छन्दों के विषय में प्रथम कहते हैं (अग्नेः सयुग्वा गायत्री-अभवत्) अग्नि देवता के साथ युक्त गायत्री छन्द है (सविता-उष्णिहया सं बभूव) सविता देवता उष्णिक् छन्द के साथ सङ्गत होता है (महस्वान् सोमः) महान् गुणवान् सोम देवता (अनुष्टुभा-उक्थैः) अनुष्टुप् छन्द और उक्थ मन्त्रों के साथ सङ्गत होता है (बृहस्पतेः-वाचं बृहतीः-आवत्) बृहस्पति देवता की बृहती वाणी प्राप्त होती है। इस प्रकार अग्नि, सविता, सोम, बृहस्पति देवता के गायत्री, उष्णिक्, अनुष्टुप्, बृहती छन्द होते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - देवताछन्दसां विषये प्रथम उच्यते (अग्नेः-सयुग्वा गायत्री-अभवत्) अग्नेः सहयुक्ता गायत्री भवति (सविता-उष्णिहया सं बभूव) सविता खलूष्णिक्छन्दसा सह सम्भवति (महस्वान् सोमः-अनुष्टुभा-उक्थैः) महागुणवान् सोमः-अनुष्टुभा तथोक्थैश्च सह (बृहस्पतेः-वाचं बृहती-आवत्) बृहस्पतेर्वाक् ‘प्रथमास्थाने द्वितीया व्यत्ययेन-छान्दसी’ प्राप्ता भवति, अग्निसवितृसोमबृहस्पतयो देवताः गायत्र्युष्णिग-नुष्टुब्बृहत्यश्छन्दांसि भवन्ति ॥४॥